बलीति ॥ मागधो जरासन्धः श्वशुरः सहायभूतः । तेनापि
दिग्विजये पराजितेन सुते दत्ते । एतेषामन्यतरेणाप्याज्ञोल्लङ्घने
कृते जरासन्धः साधयतीत्याश्रयः ॥ २॥
पीडितानां कृत्यमाह-
ते पीडिता निविविशुः कुरुपाञ्चालकैकयान् ।।
शाल्वान् विदर्भान्निषधान् विदेहान् कोसलानपि॥
एके तमनुरुन्धाना ज्ञातयः पर्युपासते ॥३॥
ते पीडिता इति ॥पूर्वोक्तैः पीडिताः कुरुदेशान्
हस्तिनापुरदेशान, विविशुः । तथान्ये पाश्चालदेशान् किम्पिलादिदेशान्,
कैकयान् चित्रकूटादिदेशान् , शाल्वान् पश्चिमदेशान्, निषधान्
उत्तरदेशान्, विदर्भान् दक्षिणदेशान्, विदेहान् तीरभुक्तदेशान्,
कोसलान् अयोध्यादेशान् नितरां विविशुः । गुप्ततया स्थिताः।
एते धर्मात्मानो राजानः । अतः स्वदेशं परित्यज्य सकुटुम्बास्तत्रैव
स्थिता इत्यर्थः । ये पुनर्निर्गन्तुं न शक्तास्ते कंससेवका
एव भूत्वा स्थिता इत्याह ॥ एक इति ॥ एके
अक्रूरादयस्तमनुरुन्धानास्तं संवेष्टय तत्सेवकत्वेन स्थिता ज्ञातयो गोत्रिणः
परित उपासते ॥३॥
एवं सर्वेषां महद् दुःखमुद्यमार्थं हेतुत्वेन निरूपितम् ।
भगवत उद्यमं वक्तुं देवक्या बन्धनावधि चरित्रमाह-
हतेषु षट्सु बालेषु देवक्या औग्रसेनिना ।।
सप्तमो वैष्णवं धाम यमनन्तं प्रचक्षते ॥
देवक्या बन्धनाऽवधीति ॥ अत्रेदमाकृतम् । सप्तमे गर्भ जाते
नन्दाद्या ये व्रज इत्यादि नारदेनोक्तम् । तदा षट्पुत्रहतिर्मातृबन्धनं
च जातम् । तत्र, हतेष्वित्येकेनानूद्य स गर्भो देवक्या हर्षशोकवि=