भगवानिति ॥ षड्गुणैश्वर्यसम्पन्नः पूर्वापराधे प्रतीकारं
कर्तुं सप्तमे स्पृष्टे तेनैव हननसम्भवात् प्रतीकारो न भविष्यतीति
शीघ्रं च स्वयमागन्तुं गर्भमन्यत्र नेतुं योगमायां समादिशत्
या जगत्कारणभूता भगवच्छक्तिः सा योगमाया । लोकानां
दुःखपरिज्ञानार्थं, विश्वात्मेति ॥ यदूनां कंसजं भयं विदित्वा ।
सर्वस्यैव स्वरूपं जानाति, किं पुनर्यादवानाम् । तेषामेव दुःखे
सति प्रतीकारे हेतु:- निजनाथानामिति ॥ निजः स्वयमेव
नाथो येषाम् । केवलमिच्छयैव सर्व न भवतीति दृष्टकारणार्थं
योगमायादेशः ॥ ५॥
आज्ञामेवाह--
गच्छ देवि व्रजं भद्रे गोपगोभिरलङ्कृतम् ॥
रोहिणी वसुदेवस्य भार्यास्ते नन्दगोकुले ॥
अन्याश्च कंससंविग्ना विवरेषु वसन्ति हि ॥ ६॥
गच्छदेवीति नवभिः ॥ प्रथमतो व्रजं गच्छ । तत्र गता
स्वास्थ्यं प्राप्स्यतीति । मथुरायां दैत्यावेशात् तेषां च भगवान्
मायारूप इति इयमपि तत्र प्रविष्टा तेषामेव कार्यं साधयेत् । अतः
केवलदेवाऽऽश्रितं गोकुलमेव गच्छेत्याज्ञा । यतस्त्वं देवतारूपा
न दैत्यहितकारिणी । अतस्तथा सम्बोधयति ॥ व्रजपदेन
जङ्गमत्वमुक्तम् । अतः स्थावरानगरादुत्कर्षः । ननु तत्र स्थितानां
देवानां मायागमने व्यामोहसम्भवाद् वैपरीत्यं स्यादिति शङ्कां
वारयति ।। भद्र इति ॥ त्वं कल्याणरूपा । देवानां या देवता
कल्याणरूपा ऐहिकसुखदा सा मुग्धैरत्यन्तं सम्मान्यत इति ।
तदर्थमाह ॥ गोपगोभिरलङ्कृतमिति ॥ गोपा गोप्यश्च गावश्च
स्थावरान्नगरादिति ॥ न गृणातीति नगरमतः स्थावरतुल्यम् ।
अभिमानेन स्तब्ध एव तिष्ठतीति तथा ॥