एतत् कंसाय भगवान् शशंसाभ्येत्य नारदः ॥
भूमेर्भारायमाणानां दैत्यानां च वधोद्यमम्॥६४॥
एतदिति ॥ नारदस्य दुष्टत्वं व्यावर्त्तयति ॥ भगवानिति।।
शंसनमेकान्ते कथनं, युक्तिपूर्वकमुपाख्यानपूर्वकं च । तत्रैवोपा-
ख्याने फलितानि वाक्यान्यत्रोपनिबद्ध्यन्ते । अत आनुपूर्व्यभावो
न दोषाय । एतावतैव कार्यसिद्धेः । ननु देवानामागमने
किं स्यादित्याशङ्ख्याह ।। भूमेरिति ॥ नाकपृष्ठे देवानां मन्त्रणं
जातं, भूमेर्भारायमाणा ये कंसादयो दैत्या जातास्ते हन्तव्या
इति । तद्धननार्थमेव देवागमनं वधोद्यमरूपं जातं, वधोद्यमं यथा
भवति तथा एते देवतापाया इति वाक्यम् ॥ ६४ ॥
एवं श्लोकत्रयमुक्त्वा ऋषौ गते कंसो यत् कृतवांस्तदाह पञ्चभिः-
ऋषेर्विनिर्गमे कंसो यदून मत्वा सुरानिति ॥
देवक्या गर्भसम्भूतं विष्णु च स्ववधं प्रति ॥६५॥
ऋषेर्विनिर्गम इति ।। अनुवादेऽपि येऽर्थास्ते पूर्व
नारदेन उक्ता इति ज्ञातव्यम् । ऋषिणैव निवारितमिति न
ऋषेरग्रे किञ्चित् कृतवान् । द्वयं ज्ञातवान् , चतुष्टयं च कृतवान् ।
ज्ञातं द्वयमाह ॥ यदून सुरान् देवान् मत्वा,देवक्या गर्भेऽष्टमे
सम्भूतिर्यस्य तादृशं च विष्णुं स्वस्य कंसस्य वधं प्रत्येव
देवकीगर्भसम्भूतिं विदित्वा ॥ ६५ ॥
देवकी वसुदेवं च निगृह्य निगडैहे ॥
जातं जातमहन् पुत्रं तयोरजनशङ्कया ॥ ६६ ॥
प्रथमतो देवकी वसुदेवं चकारादन्यांश्च तदन्तर्गतान् स्वगृह
एव निगडैर्निगृह्य जातं जातमानुपूर्व्येण जातम् । अष्टमसंख्याया
अपेक्षाबुद्धिजन्यत्वाद् गणनायामनियमसम्भवाद्, अजनशङ्कया