विष्णुसन्देहात् षट्पुत्रानहत् । जातं जातमिति न कालभेदज्ञापकं, किन्तु मारणे देवक्यां जननमेव निमित्तमिति ज्ञापयितुम् । अन्यथा क्षत्रियाणां त्रयोदश एवादि नामकरणसम्भवादुत्पन्नमात्राणामेव मारणे,कीर्तिमन्तं सुषेणं चेत्यादिनामोक्तिराद्यस्कन्धेऽनुपपन्ना स्यात् ॥ ६६ ॥
नन्वेवं कथमतिदुष्कृतं कृतवानित्याशङ्क्याह-
मातरं पितरं भातृन सर्वांश्च सुहृदस्तथा ॥
घ्नन्ति ह्यसुतृपो लुब्धा राजानः प्रायशो भुवि ॥६७॥
मातरमिति ॥ अयं तु दैत्य एव । येऽप्यन्ये
राजानस्तेऽप्यसुतृपः केवलं पाणपोषकास्तत्रापि लुब्धाः ।
लोभः सर्वगुणनाशकोऽतस्तेषां गुणा न सन्तीति
ज्ञापनार्थमुक्तम् ॥ प्रायश इति, लुब्धा इति च पदद्वयेन
केचन धर्मात्मानो व्यावर्त्तिता अम्बरीषादयः । भुव्येषैव
व्यवस्था । यतो युधिष्ठिरादयोऽपि पितामहादीन् मारितवन्तः ।
स्वस्य यत्रैव मरणसन्देहस्तानतिमान्यानपि मात्रादीन्
पञ्चविधान् घ्नन्त्येव ॥ ६७ ॥
नन्वस्य स्वस्यापि देवत्वसम्भावनया तद्धिताऽऽचरणमेव कथं न जातमित्याशङ्क्याह-
आत्मानमिह संजातं जानन् प्राग्विष्णुना हतम्॥
महासुरं कालनेमि यदुभिः स व्यरुद्ध्यत ॥ ६८॥
आत्मानमिति ॥ पूर्वमऽमृतमथने भगवता महाऽसुरः कालनेमिहतो देवपार्ष्णिग्राहेण । स एवाऽयं कंस इत्यात्मानं जानन् पुनर्देवप्रेरणयैव मारणार्थमायातीति यदूनां देवत्वात्तैः सर्वैरेव सह विरोधं कृतवान् ।। ६८ ॥
अन्यदप्यत्यन्तायुक्तं कृतवानित्याह--