पृष्ठम्:श्रीसुबोधिनी.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
जन्मप्रकरणम्अध्यायः


च स्वाहं वित्तिवेद्या एव न परस्य विषयाः । अतस्तेषां तथात्वाभावातथैवेत्यर्थः । भेदस्य पारमार्थिकत्वमनुमानेनाशङ्कते । ननु भेदः इत्यादि । भेदइति । आत्मनां परस्परं भेदः । एवमनुमानं बाधकतर्केण दूषयन्ति । आत्मविपर्ययो न स्यादिति । बाधकतर्कप्रणयनम् । तञ्च आत्मा नाशोत्पत्तिशाली प्रतिशरीरं भिन्न इत्याकारकमन्यथाज्ञानं तादृशविपर्ययस्त्वात्मनः स्तनपानादिक्रियाजनकसंस्कारशालितया नित्यत्वे सर्वशरीरघृतचैतन्योपलम्भेन व्यापकत्वे चानुमितेऽपि भेदकृतव्यवहारेण जायते अन्यथा तदुत्पत्तिनाशाभ्यां स्वस्यान्यस्य च हर्षशोकादिकं न स्यात् तथाच भेदो न परमार्थिकः संसारहेतुत्वात् । यध्यत्संसारहेतुस्तन्न पारमार्थिकं अन्यथा बुद्धिवदिति च । प्रतिपक्षसद्भावान्न पूर्वोक्तानुमानेनात्मभेदसिद्धिर्नचात्मन उत्पादविनाशशालित्वसिद्धिरित्यर्थः। नन्वात्मविपर्ययोऽज्ञानेन न तु भेदेनेत्यत आहुः । अन्यथेति । तथाचैवमङ्गीकारेप्यज्ञाननस्य नाज्ञानत्वेनात्मविषयकान्यथाबुद्धिजनकत्वं, किन्तु भेदजनकत्वेनेति भेदादेवात्मविपर्यय इत्यर्थः । भेदस्यैव कार्यान्तरमाहुः । किञ्चेत्यादि । एकत्वे ज्ञात इति । नित्यत्वेन पूर्वापरदेहयोरेकत्वे ज्ञाते । सर्वव्यवहारेति । श्यामोऽहं गौरोहमित्यादिव्यवहारेत्यर्थः। भेदस्यैव पुनः कार्यान्तरमाहु किश्वेत्यादि ॥२०॥

 तस्मादित्यत्र अस्य मत इतयादि । दैत्यम्ते सृष्टेः पुष्टिप्रवाहमार्यादाचर्षणीभेदेन चातुर्विध्यं न ॥२१॥

 यावदित्यत्र अक्रिय इति कर्मवपक्षे क्रियाजन्यफलशालिनीत्यर्थः । कर्तृत्वपक्षे क्रियानुकूलकृत्य नाश्रये इत्यर्थों बोध्यः ॥२१॥

 क्षमध्वमित्यत्र स्वस्रोरितिद्विवचनं साधयितुं श्रीधरमतं दूषयति। स्वसृशब्देनेत्यत्र न तृतीया, किन्तु नेति भिन्नं पदं श्रीधरीये। श्यालः कंसः स्वस्रोरिति स्वसृशब्देन द्विवचनानुपपत्त्या मिथुनगुणद्वारामिश्रितलक्षणया स्वसृतत्पत्योरभिधानं लिङ्गसमवायेन प्राणभृत उपदधातीतिवदित्युक्तम् । तदुक्तम् । स्वसशब्दस्य तत्यतावभिधाया अभावात् । तदभावे चाभिधानमिति प्रयोगस्य च वक्तुमशक्यत्वात् नच स्वस्त्रोरिति प्रयोगान्यथानुपपत्या लक्षकस्याप्यभिधायकत्वमङ्गीक्रियत इति वाच्यम् । तथासति लक्षणोछेदापत्तेः । नच मास्त्वभिधायकत्वं तथापि प्रयोगसिद्ध्यर्थ वाचकलक्षकयोऽपि