पृष्ठम्:श्रीसुबोधिनी.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।


र्वन्ति भुवि भौमानीति । अस्मिन्पक्षे पूर्वार्द्ध दान्तिकवाक्यं भिन्नं कथनीयम् । तथाच यथा भौमानीति पदं भुवित्यनेन सम्बध्यते तथाभूतानीतिपद मध्याहते आत्मनीति पदेन सम्बध्यते । शेषानि पदान्यावर्तन्ते । अस्मिन् पक्षे आत्मपदाध्याहारदोषात् पक्षान्तरमाहुः । भूतानि जातानि वेति यथा भुविभौमानि यथा भव्येवभूतानि अवादीनीत्यर्थः । भूस्त्वधिकरणत्वेनैव वर्तत इति तत्र विद्यमानभूतानि आकाशातिरिक्तान्यवादीन्येवेति तान्येवेति जातपदेनोक्तानीतिज्ञातव्यम् । अस्मिन्पक्षे चकारेण दृष्टान्तान्तरस्य समुच्चयान्नपदावृत्तिदोषः । ननु भौमानिमित्त्यादीनीति यत् द्वितीयं ब्याख्यानं तस्य किम्प्रयोजनमित्याकांक्षायां टिप्पण्यां तदुक्त्वा व्याकुर्वन्ति । ननु भुवीत्यादि । जातानित्यस्यार्थअवादीनीत्यादि । अस्मिन् पक्षे दार्ष्टान्तिकाकांक्षा भवति तां व्याख्यानेन पूरयन्ति । आत्मेत्यादि । एतेनेति । दार्ष्टान्तिकं व्याख्यानेन प्रकार इति । वैपरीत्यरूपः । एवमपीति । उक्तयोजनायामपि न सार्थकानि भवन्तीति । नायमात्मातथेत्येतावतैव चारितार्थ्यात्तथा । तथात्वमिति। सार्थकत्वं । मूले एवमेवपदसार्थकत्वं विवक्षितमित्यत्रगमकं सुबोधिन्यामाहुः । तेष्वित्यादि । तदेतट्टिप्पण्यां व्याकुर्वन्ति । दृष्टान्ते एवेत्यादि । एवं सतीति।न तथैतेष्विति पदानां पूर्वार्द्धऽन्वये सति । विपक्ष इति । आत्मनोप्युत्पत्यादिविकाराङ्गीकारे ॥ १९ ॥

 यथा नैवं विद इत्यत्र । एकपदमिति । वेदनं वित् । भाव क्विप्। तत एवमित्यनेन केवलसमासस्ततो न एवं विदन्वेयं विदितितत्पुरुषः । ततो यथा बदने वम्वित् यस्येति बहुव्रीहि । तत्र शेषाद्विभाषेति कप्रत्ययप्राप्तः सत्वनित्योवैकल्पिक इत्यर्थ इति श्रीवल्लभः। तन्ममापि सम्मतमिति दिक ननु भेदस्यानेवं विद्विषयत्वे किं मानमित्याकाङ्क्षायां तस्य तथात्वमुपपादयन्ति भेदस्त्वित्यादि । ननु द्वित्वमेव भेदसाध्यं कुतो न भवतीत्यत आहुः । नहीत्यादि तथाच एकस्मिन् दृष्टे एकएवेति बुद्धिर्भवति न त्वभिन्न इत्यतो द्वित्वसाध्यमेव भेदो न तु भेद साध्यं द्वित्वमित्यर्थः । नन्वपेक्षाबुद्धेर्भ्रान्तत्वे भेदस्याज्ञानकृतत्वं स्यान्तस्यस्तथात्वमेव कथमित्याकाङ्क्षायामपेक्षाबुद्धेरज्ञानकतत्वे हेतुमाहुः । अपेक्षाविषयाणामभावादिविषयाणामिति भावप्रधाने निर्देशः । अपेक्षाविषयाह्यात्मानो वाच्यास्ते