पृष्ठम्:श्रीसुबोधिनी.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
जन्मप्रकरणम्अध्यायः


स्य तादृशीयवाचकत्वे प्रमाणमाहुः । कृपण इत्यादि । कालज्ञानादित्यादि । अयं याचनस्य काल इति ज्ञानाद्याचनं कृतवती । तथाच याचनया कन्यादाने भगवान् सर्वात्मक इति भगवतस्तथात्वात् तं दातुं प्रेरयिष्यति तदा तदपराधक्षमामपि करिष्यति तदा कदाप्यनिष्टं न भविष्यतीति ज्ञापनाय सतीपदमित्यर्थः । प्रयोजनान्तरमाहुः । भर्तुरित्यादि । अन्यथेति । अयाचने सति कन्यामारणे ॥४॥५॥

 नन्वहमित्यत्र फलामिति । याचनफलम् ॥ ६॥

 उपगृह्येत्यत्र कृष्णोपनिषदि देवकी ब्रह्मविद्या सा या वेदैरूपगीयते । निगमो वसुदेवोयमिति च श्रावितम् । तत्र ज्ञेयस्य ज्ञानरूपलाभहेतुत्वमर्थस्य च प्रयोगे हेतुत्वं लोकेऽपि स्पष्टम् । एवं सति श्रीयशोदाया मुक्तिरूपत्वेन श्रीदेवकीरूपब्रह्मविद्याविषयतया आधिदैविकत्वमिति सेयंचपरस्परविचारेणैकैव आधिदैविकाध्यात्मिकयोस्तथात्वात् भगवदनुजेनेतिवदञ् शुकैरात्मजाशब्दउक्तइत्यर्थः । शुकस्यैवं कथने प्रयोजनाभाव इत्यरुच्या पक्षान्तरमाहुः । देहेत्यादि ॥ ७॥८॥

 सातद्धस्तादित्यत्र । अनुजा त्वं हि न भगवज्जन्मोत्तरकालिकजन्मता प्रयुक्तं अतिप्रसङ्गात् प्रकृते च स मातृकत्वयोरभावाच्छुकेन कथमस्यामनुजात्वमुक्तमित्यत आहुः । यशोदेत्यादि । कृष्णोपनिपदि यो नन्दः परमानन्दो यशोदा मुक्तिगेहिनीति निश्रावितम् । तथा देवकी ब्रह्मविद्या सा या वेदैरूपगीयते निगमो वसुदेवोयमिति च श्रावितम् । तत्र ज्ञेयस्य ज्ञानरूपलाभहेतुत्वमर्थस्य च प्रयोगहेतुत्वं लोकेऽपि स्पष्टम् । एवं सति श्रीयशोदाया मुक्तिरूपत्वेन देवकीरूपब्रह्मविद्याविषयतया आधिदैविकत्वमितिसेयं च परस्परविचारेणैकैव आधिदैविकाध्यात्मिकयोस्तथात्वात् भगवज्जन्मनः पश्चान्मायाजाता । एवं तयोरैक्यत्वापश्चाज्जातत्वे सिद्धे यदि भगवानाधिदैविक्याः सुतो यदि वाऽध्यात्मिक्या उभयथापि सा अनुजाता तत्र हेतुः लोकसिद्धेरिति । लोकप्रसिद्धिरैतिह्य तस्मात् श्रुतिप्रत्यक्षमैतिद्यमितिश्रुतौ भगवद्वाक्येचतस्यप्रमाणत्वेनाङ्गीकारादित्यर्थः ॥९॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥१५॥ १६ ॥ १७ ॥

 माशोचतमित्यत्र । मत्कृपयेतिमयि कृपां कृत्वेत्यर्थः ॥१८॥
 भुविभौमानीत्यत्र एतच्छ्लोकं व्याख्याय प्रकारान्तरेण व्याकु-