अथ चतुर्थोऽध्यायः।
अथ चतुर्थाध्यायं विवरिषवो जन्मप्रकरणार्थस्य
हेतूद्यमस्वीकरणकापऽयाऽऽख्याऽर्थचतुष्टयघटितत्वात्तत्र स्वीकरणस्यैव
मुख्यस्वात्तत्पूर्वाङ्गयोहेतूद्यमयोः पूर्वाध्यायद्वय
उक्तत्वात्स्वीकरणोत्तरमत्रोत्तराङ्गभूतं
कापट्यं वक्तव्यं तदत्रावसरसङ्गत्या निरूपयति । यद्वा कापट्यं विना
रूपान्तरस्वीकरणं न सम्भवतीति प्रकृतघटकोपोद्घातसङ्गत्येदं
निरूपयतीत्याशयेनाहुः । मायायाः कार्यमित्यादि । तच्च
कपाटावरणादिसर्वधर्मनाशान्तं ज्ञेयम् । नन्वेतन्निरूपणस्य किम्प्रयोजनमित्यादि ।
यदि कापट्यरूपं मायाकार्य न भवेत्तदा अनिमित्ततः भगवत्कार्यं न भवेत् ।
अनिमित्तत इत्यस्यार्थं टिप्पण्यामाहुः । अनिमित्तेत्यादि । तथाच मायाकार्याभावे
भक्तदुःखाऽभावातत्सुखदानरूपं भगवत्कार्यं न भवेत् अतस्तदर्थं तत्प्रयोजकं
मायाकार्यमत्रावश्यं निरूपणीयमिति प्रथमकारिकार्थः । यद्वा ननु मायाकार्यं
पूर्वाध्याये निरूपितमित्यधुनेति कथनं न सम्भवतीत्याशङ्क्याह । चतुर्थेति
यद्यपि पूर्वाध्याये निरूपितं तथापि तन्न भगवत्प्राकट्यकार्योपयोगि किन्तु
नाद्योपयोगि अधुना तु चतुर्थे चतुर्थस्यानिरुद्धस्य प्राकट्यं निरूप्य तन्निमित्तं
निरूप्यत इति न दोषः । तद्विशदयन्ति । अन्यथेति । मायाकार्याभावे
अनिरुद्धग्राकट्याभावेन भगवत्कार्यं सर्वधर्मरक्षा देवक्यादिवन्धननिवृत्तिश्च
न स्यादित्यर्थः । यद्वा पूर्वनिरूपितमपि मायाकार्यं निरूप्यते । तदनिरूपणे
संवादाद्यभावे कंसेनापराधाद्यकरणे भक्तदुःखाभावात् पूर्वोक्तं भगवत्कार्यं
नाद्यं देवक्यादिबन्धनिवृत्तिर्गोकुलीयलीलात्ततथेत्यर्थः । एवं संक्षेपेणाध्यायार्थं
तत्प्रयोजनं चोक्ता तदवान्तरार्थानग्रे कारिकात्रयेणाहुः । ज्ञापने इत्यादि ।
तदेतट्टिप्पण्यां विवृण्वन्ति ज्ञापने इत्यादि । ज्ञापने इति पदं प्रथमाद्विचनातं
ज्ञेयम् । मायामोहं विना नेति इदं इति प्रभाष्येत्यस्य सुवोधिन्यां स्फुटिष्यन्ति ॥ १॥
ते तु तूर्णमित्यत्र निलायनादिकमिति । बालकस्य निलायनम् । आदिपदेन शब्दान्तरेण प्रतिवन्धश्च ॥२॥३॥
तमाहेत्यत्र ॥ सात्विक्यपि स्त्री इति । यद्यपि ज्ञानयुक्ता तथापि स्त्रीस्वाभाव्यादाहेत्यर्थः अनालोचितया चिकेति । न विचारितं कन्या या च कस्य कंसस्य स्वरूपं यया तादृशीत्यर्थः । कृपणशब्द-