पृष्ठम्:श्रीसुबोधिनी.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
जन्मप्रकरणम्अध्यायः


वाक्यविरुद्धत्वात् । सऋक्षापि न कर्त्तव्या सप्तमीसंयुताष्टमी अविद्धायां सऋक्षायां जातो देवकीनन्दन इतिब्रह्मवैवर्त्तवाक्यविरुद्धत्वाञ्च । अष्टमीसप्तमीविद्धा हन्तिपुण्यं पुराकृतं ब्रह्महत्याफलं दद्यारिवैमुख्यकारणादिति गौतमीयतन्त्रवाक्ये दोषोक्तेश्च पुत्रोत्सवादिकञ्च शुद्धनवम्यामेव जातमिति शुद्धाष्टम्यभावे उत्सवाधिकरणकालत्वमादाय स्वकालादुत्तरः कालो गौणः सर्वस्य कर्मण इतिगौणकालत्वं चादाय नवम्युपोष्या नतु तादृशस्थले अर्द्धरात्रवेधादिकमादरणीयमित्यर्थः । इदं यथातथा उत्सवनिर्णयान्तरगतजन्माष्टमीनिर्णयविवरणे सम्यग्पञ्चितमिति ततोऽवधेयम् । ननु गृहाद्वहिर्गमनावसरे मायाजन्मकुत उक्तमित्याकाङ्क्षायामाहुः । अन्तरित्यादि । तत्र हेतुमाहुः। साहीत्यादि । कार्योपायार्थमिति कार्यसाधनार्थम् ॥४७॥४८॥

 ववर्षेत्यस्याभाषे उभयोः सांमुख्येति मायाभगवतोसांमुख्ये॥४९॥

यमानुजेत्यत्रकालकृतदोषमध्ये गाम्भीर्यं सात्विकं फेनादिरित्यादिपदेन उर्मय मकरादयो जीवाः॥ स्वाभाविकदोषनिरूपणे समप्रवाहराहित्यं सात्विकम् । सात्विकस्य स्तम्भहेतुत्वात् ॥ ५०॥५१॥५२॥५३ ।।


इति श्रीमद्वल्लभनन्दनचरणैकतानश्रीयदुपतितनुजपी-

ताम्बरविरचिते दशमस्कन्धसुबोधिनीटिप्पण्योः

प्रकाशे तृतीयाध्यायविवरणम् ।