पृष्ठम्:श्रीसुबोधिनी.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।


षां त्रयाणामपि सम्यक्तपक्षाणां समुच्चय एव ननु विकल्पः श्रुतार्थापत्तिसिद्धत्वात् । व्याख्याने वा शब्दस्तु वाक्यालङ्कारे तेन सिद्धमाहुः । एवमित्यारभ्य तथासोदि इत्यन्तम् नन्वेवं सर्वेषु पदेण्वासीदितिक्रियाया सम्बद्धेषु सत्सु बभूवेतिक्रियान्तरं व्यर्थ्य॑मसङ्गतत्यादित्याकाङ्क्षायां तदवैयर्थ्यप्रकारकमाहुः। अपरोक्षेत्यादि । सोंऽश इति । अप्राकृतत्वांशः । तथाच प्राकृतो बभूवेति भिन्नं वाक्यमतो न वैयर्थ्याादिदोष इत्यर्थः । यद्यप्यत्र पूर्वसमुच्चायकश्चकारोपेक्ष्यते तथापि परोक्षत्वायैव तदनुक्तिरित्यपि ज्ञेयम् । प्राकृतो बभूवेत्यस्य तदर्शनप्रकारकथनत्वमभिप्रेत्य पक्षान्तरमाहुः । अरञ्चेत्यादि । तथाभूतैवेति । अप्राकृतैव । ननु तर्हि नालच्छेदादेः । कथमुत्पत्तिरित्यत आहुः तत्तञ्चयोकेत्यादि । नन्वनुक्तमिदं कथमङ्गीकर्तुं शक्यमित्यत आहुः । लोलाया इत्यादि । प्राकृतत्वप्रतीतेरौचित्य युक्त्यन्तरमाहुः । अतएवेत्यादि । ननु प्राकृतो बभूवेत्यस्य दर्शनप्रकारकथनत्वाङ्गीकारे भवनक्रियां प्रति प्राकृत इत्यस्य कर्तृत्वमसङ्गतं स्यादित्यतः पक्षान्तरमाहुः । अथवेत्यादि । मुक्तमेवेत्यन्तम् । अस्मिन् पक्षे कल्पनाक्लेशादरुच्या पक्षान्तरमाहुः । यद्वेत्यादि । अस्मिन् पक्षे यथाश्रुतमेव श्लोके वाक्यं ज्ञेयम् । शेषं विवृण्वन्ति । पित्रोरित्यादि । स्नेहातिशयो ज्ञायत इतिस्नेहातिशयरूपं ज्ञायत इत्यर्थः । ममानुस्नेहातिशयात् ज्ञायत इति पञ्चमीघटितः । पाठः प्रतिभाति । स ज्ञाप्यत इति । स्नेहातिशयो ज्ञाप्यते ॥४६॥

 ततश्चेत्यत्र तस्यचेति वसुदेवस्य च । भगवत्प्रचोदित इत्यादेस्तात्पर्यं तु टिप्पण्यामेव प्रकाशितमिति ततोऽवधेयम् । तर्ह्येवेत्यादि शब्दसूचितमर्थम् । सुबोधिन्यामाहुः । अनेनेत्यादि । यदा बहिर्गन्तुमीयेष तर्ह्यजापायोगमायाजनीत्यादिकथनेन भगवत्याकट्यामुहूर्त्तानन्तर्यं लभ्यते । नवभ्यां योगनिद्राया जन्माष्टम्यां हरेरतः नवमीसहितोपोष्पारोहिणी बुधसंयुतेति भविष्योत्तरवाक्यान्नवम्यां सा जातेति ज्ञायते । अथ सर्वगुणोपेत इत्यत्र यर्ह्येवाजनजन्मर्क्षामिति निशीथारम्भे रोहिण्यारभ्भकथनाद्रोहिणीतु भगवन्मायाजन्मनोस्तुल्याः । अतो निशीथे रोहिण्यारम्भकथनाद्रोहिण्याः कृत्तिकावेधो न दोषाय तेन रामानुजमतीयैर्यत्कृत्तिकाविद्धारोहिणी नाद्रियते तदसङ्गतमुक्तवाक्यविरुद्धत्वात् । सप्तमीवेधस्तु दोषायैवोक्तभविष्योत्तर