पृष्ठम्:श्रीसुबोधिनी.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
६५
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।


भवन इति । सुतत्वेन भवने । अनेकप्रकारमध्ये तस्यापि संग्रहादिति ॥४१॥४२॥

 तृतीयेऽस्मिन्नित्यत्र भव इति । वसुदेवदेवकीत्वेन भवः । अत्रापि प्रकटस्य कृष्णो वासुदेव इति नामद्वयं गर्गेण नामकरणान्मुख्यत्वेन विवक्षितमित्यर्थः । ननु प्रथमं एक द्वितीये द्वयमिति तृतीये त्रयमपेक्षितमित्यत आहुः । तृतीयस्थाने बहूनीति । लोक बहुत्वस्य त्रित्वे पर्यवसानाभावाद्बहूनीत्यर्थः पक्षान्तरमाहुः। देवकीत्यादि । यद्यपि कृष्णेत्येव नाममुख्यं कृषिर्भूवाचक इति श्रुत्या ब्रह्मनामत्वबोधनात् । ब्रह्मवेवर्त्तेक्तिगिर्मिश्च नाम्नां मुख्यतरं नाम कृष्णाख्यं यत्परं तथेति पुराणान्तराञ्च । तथाप्यवतारानन्तरर्यमपेक्ष्यैतदुतं ज्ञेयम् ॥ ४३॥

 एतद्वां दर्शितमित्यत्र । ननु भगवत्सान्निध्यजनितसर्व ज्ञातया लौकिकप्रत्यक्षसिद्धेः प्राग्जन्मादिविषयमलौकिकं प्रत्यक्षमेव सत्सतीत्येवं तत्स्मारणस्य किम्प्रयोजनमत आहुः । सान्निध्यादित्यादि । तथाच यथा तस्य तत्फलं तथा वैराग्यमपीति नायं दोषः स्यादिति सर्वज्ञताप्रतिबद्ध्यै तेन बालकरूपेण तत्स्मारणमित्यर्थः। तत्कालमात्रस्यैवेति । स कालो यस्य तत्तत्कालं तन्मात्रस्य तत्सामयिकमात्रस्यैवेति यावत् । अत एव स्तुतिः प्रार्थनाबीजभूतं भयं चेतिद्वयं सान्निध्यरूपप्रदर्शनस्य चक्रमिकं कायेमत्र सङ्गच्छत । अन्यथा तु प्रार्थनाबीजस्य भयस्याघटमानतैव स्यात् ननु वाक्येन भगवत्वज्ञाने पुनस्तहोषतावदस्थ्यमित्यत आहुः । वाक्यादित्यादि । नकाप्यनुपपत्तिरिति । सान्निध्यस्य प्राधान्ये मोहकाभावात् तथा स्यात् भगवाँस्तु यावत्स्वेष्टं मोहं ज्ञानञ्च सम्पादयतीति न दोष इत्यर्थः। स्मारणफलमाहुः एतावतेत्यादि । अमुरूपमदर्शयित्वा केवलवाक्यमेव कुतोनोक्तवानित्यत आहुः । केवलवाक्यत्वित्यादि । केवलवाक्य इति । लौकिकरीतिका: वालरूपेणोक्ते वाक्ये तथाच शास्त्रानुभवयोः सम्वादार्थ प्रदर्शितवानित्यर्थः। उत्तरार्द्धस्याभासोऽयम् । उत्तरार्द्धव्याकुर्वन्ति । अन्यथेत्यादि । उच्यमाने इति । वाक्ये उच्यमाने ॥४४॥

 युवांमामित्यत्र ननु विषवैक्येऽपि विहितभक्त्योः प्रकारभेदस्य सत्वात्फले कथमैक्यमित्यत आहुः । माहात्म्येत्यादि । तथाच विशेग्यम् । शस्यैक्यात्फलैक्यमित्यर्थः । उक्तयुक्तरप्रयोजकत्वपरिहाराया-