पृष्ठम्:श्रीसुबोधिनी.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
६३
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।


प्रार्थनीयामित्यन्तेन द्वितीयस्याः । एवमित्यारभ्य युक्तवत्यन्तेन तत्रैव पक्षान्तरोषपादनेन युक्तत्वसमर्थनम् । न स्यादिति । अस्माकमिति शेषः । मर्यादेति । पुत्रभावमर्यादा । एवं युक्तैवेत्यन्तेन प्रथमश्लोकतात्पर्यमुक्तं । एतदित्यादिना द्वितीयस्य इदानीं मारणेत्यादिना तृतीयस्य ।। २८ ॥

 जन्मत इत्यग्रिमश्लोकस्याभासं टिप्पण्यां विवृण्वन्ति । इदानीं मारणेत्यादि । इदानाममारयित्वा अन्यत्र गमनं प्रथमः पक्षः । इदानी मारयित्वा अन्यत्र गमनं मध्यमः पक्षः । इदानीममारयित्वा अनेन रूपेणात्र स्थितिस्तृतीयः । मध्यमपक्षे पक्षद्वयम् । स्वत उपेत्य युद्धेन कंसस्य मारणमित्येकः । स्वतो निवृत्तावपि कंसोयुद्धार्थमायाति चेत्तदा मारणमिति द्वितीयः । एवं पक्षद्वये सत्यपि सः स्वतो नायति तदा तममारयित्वैवान्यत्र गतिर्भवति तदा तथेत्यर्थः । सुबोधिन्याम् । क्लेशहेतुरिति । अधीरत्वरूपक्लेशहेतुः । तथाच विश्वासेप्यधीरत्वाज्जन्माज्ञानं प्रार्थयत इत्यर्थः । ननु यद्येवं तर्हि भवद्धतोः समुद्विज इति कुत उच्यत आहुः । भवदित्यादि ॥ २९ ॥ ३०॥

 विश्वपदेतदित्यत्र उपपादयन्ती समर्थयत इति । विरोधाभावमुपपादयन्तीविरोधं समर्थयते । ज्ञानवत्वसम्बोधनमिति । ज्ञानवत्वस्य भगवते सम्यग्बोधनम् ॥ ३१॥

 भगवद्वाक्यतात्पर्योक्तिटिप्पण्याम् । ननु च संख्याया इत्यारभ्यश्रुतिभ्य इत्यन्तेन यत्संख्याया तात्पर्यमुक्तं सङ्गच्छते । संख्यायाः पुरोडासविशेषणतया तत्र श्रावणेन पुरोडाशे अष्टाकपालत्वादिरूपद्धर्मे वा पर्यवसानादिति चेन्न । उदवसानीय विधायक श्रुतौ तथा निर्णयात् । तत्र हि । अप वै सोमेनेजान्नादेवताश्चक्रामन्त्याग्नेयं पञ्चकपालमुदवसानीयं निर्ववपेग्निः सर्वादेवताः पाङ्क्तो यज्ञां देवताश्चैव यज्ञं चावरुन्धे गायत्रो वा अग्निर्गायत्रिछन्दास्तंछन्दसा व्यर्द्धयति यत्पञ्चकपालं करोत्यष्टाकपालः कार्योष्टाक्षरागायत्रीगायत्रोग्निर्गायत्रछन्दाः स्वेनैवैनं छन्दसा समर्द्धयति पङ्कौ याज्यानुवाक्ये भवतः पङ्क्तौ यज्ञस्तेनैव यज्ञान्नैतीति श्रावितं । तथाच तत्राटकपालपुरोडाशविधाने तस्मिन् पञ्चकपालस्य सत्वेऽपि तदनादृत्य याज्यानुवाक्ययोः पञ्चसंख्याकत्वविधानेन पश्चसंख्याकयज्ञादनपगमविधानतस्तथानिश्चयात् अतः सत्ताया एकसत्तात्पर्यकत्वमपेक्षितस्थले