मिति भक्षणे द्वारं उक्ततृतीयस्कन्धवाक्यात् । सोऽपीति मृत्युरपि ।
व्यालत्वमुपपादयन्ति । भयेत्यादि ।
विविधमाऽऽलभनऽर्थोस्मादितिक्षीरस्वामिनी निरुक्तत्वाद्योगेन
भयहेतुत्वाच को व्यालशब्दः तथापि मुखहेतुक एव व्यालो दुष्टगजे
सर्प शठेश्चापदसिंहयोरिति कोशे मुखवतामेवोक्तत्वात् । तेषु योगरूढः ।
अन्यथा नदीप्रवाह पताद्भति निस्त्रिंशादावपि योगस्य तुल्यत्वात्तत्रापि
प्रयोगः स्यात् । अतस्तस्मात् पलायनं मुषकस्यैवेत्यर्थः । तदाहुः ।
यत्रेत्यादि । इत्युक्तमिति । तथाच देवत्वादावपि न निर्वर्तत एवेत्यर्थः ।
कुतो नाध्यगच्छदित्यत आहुः । शास्त्रेत्यादि । तथाच
संवादाभावान्नाध्यगच्छदित्यर्थः । त्रिविधा इति। योगवेदोपासनाः ।
अवश्यभक्षकत्वेनेत्यत्र सप्तम्यनन्तरं नेति भिन्नं पदं हि हेतौ योऽसौ
तपन्नुदेतीति श्रुतिविचारे तथानिर्णयात् । तर्हि कथं
भयनिवृत्तिरित्याकाङ्क्षायामुतरार्द्धे व्याकुर्वन्ति । एवमित्यादि । तन्मध्य इति ।
त्रिविधयोर्द्वयोर्मध्ये त्वत्पादाब्जमित्यत्र । समासस्यार्थमाहुः । भगवत्सहितमिति
त्वया सहितमिति व्युत्पत्या तथार्थः स्फुरति । लोकएवेति सप्तमी त्रितया
पेक्षयति कुण्डलीनी वेददेवापेक्षया ते कालाधीना इदं तदतीतमिति
ततोऽतिशयः । स्वपदार्थमाहुः । मृत्पित्यादि । तर्हि मृत्युस्वतः कुतो न
प्रवर्तते इत्यत आहुः । मृत्वित्यादि । एवं सर्व व्याख्याय सिद्धमर्थं निगमयन्ति ।
शास्त्रंत्वित्यादि । अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्मेति श्रुतौ
नास्यजरयैतज्जीर्यति न वधेनास्य हन्यत इति तैत्तरीये च यदाह्येवैष
एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽभयं प्रतिष्टां विन्दते अथ सोभयं गत इतिशास्त्रं
प्रमाणम् । संवादस्तु स्वस्यालौकिकभावसिद्धिः। युक्तिस्तु सर्वस्य वशीसर्वस्येशानः
भीषास्मादित्युपक्रम्य मृत्युर्धावति पञ्चम इत्यादि श्रुत्युक्ता कालनियन्ता च भगवान
तयेभ्यो हेतुभ्यः तथेत्यर्थः । ननु लोके व्यभिचारो दृश्यत इत्यत आहुः
निष्कपटतेयेत्यादि । तथाच यथा प्रल्हादस्य तथान्वस्यापि प्रवृत्तिश्चेत्स्यात्तदा न
व्यभिचार इत्यर्थः ॥ २७॥
सत्वं घोरादित्यत्र ॥ श्लोकत्रयोक्तानां चतसृणां प्रार्थनानान्तात्पर्यं वदन्ति । अत्रेत्यादि । एतेषु श्लोकेषु प्रथमे प्रार्थनाद्वयम् । तत्र प्रार्थनीयेत्यन्तेन प्रथमायास्तात्पर्यमुक्तम् । इदानीमित्यारभ्य