पृष्ठम्:श्रीसुबोधिनी.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।


निद्रापूर्वभागे इत्यर्थः । तदैवेति । एतेनावान्तरकल्पेषु त्रिलोक्या इव महाकल्पेषु सप्तलोक्या प्रलयः शेषात् ब्रह्माण्डरूपा भूस्तिष्टतीत्यनुसन्धेयमिति ज्ञापितम् । आदौ भूत इति पक्षेऽहङ्कारो नायातीतिमूलस्थे गतेष्विति पदेऽहङ्कारद्वारा गतेष्विति व्याख्यानं ज्ञेयम् । एतत्सूचयतीति । एकस्यैव भगवतः स्थितिः सर्वसंहारकाले बदन्तीति व्याख्याय मानक्रियां सूचयति । पुरुषोत्तमाभिन्न इति पक्षार्थटिप्पणीतो ज्ञेयः । सर्वशब्दवाच्य इति । सर्वैः शब्दैर्वाच्य इत्यर्थः यो यं कालइति ॥२५॥

 आधिभौतिकानामाधिभौतिकभूत इति । तदभिध्यानादेवत्वितिन्यायेन तत्र प्रविष्टस्तल्लिङ्गः । स एवेति । प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानविचेष्टा यतः स भगवान् काले इत्युपलक्षित इति तृतीयस्कन्धे कपिलवाक्यात् । काले निविष्टः काललिङ्गः । चेष्टामाहुरिति मूलवाक्यं तमित्यध्याहारेण पूरणीयम् । योऽयमितियच्छब्दस्य तच्चसापेक्षत्वादिति । चेष्टा सत्वमुपपादयन्ति। नहीत्यादि। चेष्टायाः कालत्वे प्राहुरिति यन्मानमुक्तं तदुपपादयन्ति । कालेत्यादि । अत इति यो यज्जनकः स तदात्मक इति व्याप्तेः । प्राकृतकार्यपक्षेपीत्यादि। प्रकृतिह्यस्योपादनमाधारः पुरुषः परः । स ततोऽभिव्यञ्जकः कालो ब्रह्मतत्रितयं त्वहमित्येकादशस्कन्धवाक्यादित्यर्थः । ततोप्याहति । ततोप्यधिकमाह । आधाररूपधर्मस्यति । आधारभूतस्य धर्मरूपस्य सत्वस्य ॥२६॥

 मर्त्य इत्यत्र रूपत्रयमिति । कालरूपमीश्वररूपं विष्णुरूपञ्च । हेतुमिति । प्रपत्तिहेतुभूतं भयम् । अलौकिकमिति । अतीन्द्रियं भयजनकं कालम् । प्रतिकृत्या तादृशपदार्थान्तरप्रतिपत्तौ दृष्टान्तानाहुः । यथेत्यादि । ननु भवत्वेवं तथापि भयं कुत इत आह । कालः स्वभक्ष्यमेव सृजतीति । कालस्य सृष्टिकर्तृत्वं तृतीयस्कन्धे ।सोऽनन्तोऽन्तकरःकालोऽनादिरादिकृदव्ययः। जन जनेन जनयन्मारयन्मृत्युनान्तक इत्यत्र भारते राजधर्मेषु स्पष्टम् । तत्रगमकमाहुः । अत इत्यादि । तदुपपादयन्ति । तस्येत्यादि । तस्येति । कालात्मकस्य सर्पस्य । तस्य चेति । अतीन्द्रियस्य कालस्य । त्रिविधा इति । योगिनः कर्मठादेवोपासकाश्च । तत्प्रवणा इति । कालाधीनाः ऊदनभूताइति । यस्य ब्रह्म च क्षत्रं च उभे भवतऊदन इति । श्रुत्युक्ताः । मुख-