पृष्ठम्:श्रीसुबोधिनी.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
जन्मप्रकरणम्अध्यायः


विषयत्वस्यावश्यकत्वात् । नच विषयोऽसन्नेव प्रतीयत इति वाच्यम् । श्रोते मते आकाशस्थ कार्यत्ववदव्यापकत्वस्यापि सत्वात् । अन्यथा ज्यायानाकाशादिति श्रुतिविरोधापत्तेः । एवं सिद्धे अव्यापकत्वे तत्र क्रियाङ्गीकारोऽपि युक्त एवेति पूर्वोक्तप्रतीतेरभ्रान्तत्वमेव युक्तम् । धियां बाधक विना प्रमावस्यैत्सर्गीकत्वादिति । नन्वेवं सति ब्रह्मण्यपि चेष्टास्तु। मिषत्वस्थ तत्रापि श्रौतस्वादित्यत आहुः ब्रह्मणीत्यादि । तथाच विरुद्धधर्माश्रयत्वादव्यवहार्यस्य सत्वेऽपि व्यवहार्यस्य तस्यासत्वं निरीहत्वं सिद्धमेवेत्यर्थः । वैलक्षण्यस्येति ! जगद्वैलक्षण्यस्य । तादृशमिति । नवविशेषणविशिष्टम् । नन्वेकस्मिन्नशिविशेषणे सर्वधर्मसंग्रहसिद्धौ किमितिनवानामुक्तिरित्यतआहुः । नवविधेत्यादि । तस्यैवेति । भ्रमदोषदुष्टस्य ननु भवत्वेवं तथाप्यत्रोक्तानां नवानां स्वरूपे प्रतीत्यभावात्कथंसिद्धिरित्याकाङ्क्षायां व्याप्तिमूलभूत तानुग्रहीतानुमानासिद्धिरित्याशयेनादुः । एवमित्यादि । अन्यथोते पदग्निमेषु वाक्येषु सम्बध्यते । तथाच भगवान व्यक्तः ब्रह्मादिभिस्तदाभिव्यक्त्यर्थं प्रयत्नकरणात् । यन्नैवं तन्नैवं आधः पश्चादुत्पन्नत्वेऽपि ब्रह्मादिभिस्तन्नमस्करणात् । ब्रह्म तस्यातत्र सायुज्यप्राप्तेः । यन्नैवं तन्नैवं । ज्योतिस्तत् ज्ञानेन तेषां सार्वज्ञभवनात् । यदेवं तदेवं यनैवं तवम् । गुणातीतः तनिष्टानां निर्गुणभवनात् । निर्विकारस्तद्भजनेन सर्वविकारराहित्यात् । सत्तामात्रः सर्वेषु पदार्थेषु तेषां तद्दर्शनात् । निर्विशेषस्तज्ज्ञानेन प्रपञ्चनिवृत्तेः । यन्नेवं तन्नेवम् । आनन्दमात्रानिरीहः । एतत्कृपया तेषां ब्रह्मानिष्टत्वभवनात् । यन्नैवं तत्रैवम् । अत इति । उक्ताविति । उक्तविधानुमानेभ्यः कालिकव्यभिचारमाङ्क्य परिहरतित्याशयेनाहुः । नन्वित्यादि । ब्रह्मवाक्यादिति । दिष्ट्याम्ब ते कुक्षिगतः परः पुमी निति वाक्यात् ॥२४॥

 नष्टे लोक इत्यत्र तस्यैवेति । अभिमन्तुः । लोकशब्दस्यार्थद्वयमभिप्रेतमित्याशयेनाहुः । लोक इत्यादि । लोक्यतैनेनेतिकरणव्युत्पतौ लोकः बाह्यप्रकाशः लोक्यन्त इति लोकाः कर्मव्युत्पत्तीते चतुर्दशयद्यपि ब्रह्मणः सुषुप्तिकाले सकले विलीने तमोऽभिभूतः सुखरूपमेतीतिश्रुत्याऽध्यात्मिकस्यापि लय उच्यते परं सोऽत्र नाभिप्रेत इति ज्ञापनाय विवृण्वन्ति । सचेत्यादि। स काला ब्रह्मण इत्यादिना निवृतः। तथाच