रोध इतिगुणातीतमेव कारणमित्यर्थः । नचितीति ज्योतिरित्यनेन
चिद्रपत्वमुक्तं तद्विरुद्धाश्च गुणा न तत्र संभवंतीत्यतोऽपि गुणातीतमेव
कारणमित्यर्थः । प्रकृते सगुणत्वानुयापकमाहुः । यत्रैवेत्यादि ।
तथाचानया व्याप्त्या इदं सगुणं भूतादिमत्वा जगद्वत् यन्नैवं पुरुषवदिति
चेद्विरुद्धसाधकमनुमानं प्रदर्शितं तेन सिद्धमाहुः । तदेवेत्यादि ।
उत्पत्यादीति ।
उत्पत्तिस्थितिप्रलयवृद्धिविपरिणामापक्षयाख्यषड्भावविकारयुक्त इत्यर्थः ।
प्रकृते सविकारत्वाद्यनुमापकमाहुः । लौकिकानीत्यादि । ज्ञानानीति ।
ज्ञानविषयाणि । इन्द्रियादिभिरिति। आदिपदेन सूर्यादिसंग्रहः ।
परप्रकाश्यत्वानुमाफ्कमेतत् । तथाच प्रकृते ज्योतिरादिविरुद्धं
विकारयुक्तत्वात् । रूपादिगुणयुक्तात् इन्द्रियादिप्रकाश्यत्वाञ्च
घटादिवत्प्रयोगो बोध्यः । नन्वानन्दांशे वक्तव्य सत्तामात्रमिति
किमित्युक्तमित्याकाङ्क्षायामाहुः । विष[१]येत्यादि । अत्र च
सत्तापदेनोक्तरूपतया सत्तात्मैव सर्वशब्दवाच्य उच्यते । तथाच
त्रैकालिकाबाधितसत्तामात्रत्वेन भूमरूपता बोधिता। तेनानन्दांशेऽपि
न विषयकृतं वैलक्षण्यमित्यर्थः । तर्हि निर्विशेषपदस्य किं
प्रयोजनमित्यतस्तदवतारयन्ति । सर्वमित्यादि । विशेषनामरूपधर्मवदिति ।
विशेषभूता ये नामादयस्तद्युक्तम् । इयं व्याप्तिरिति । सामान्यत्वेन
विशेषत्वेन व्याप्तिः । इतीति । एतत् ज्ञापनार्थम् । अन्यथेत्यादि ।
तद्भिन्नभिन्नत्वे सति तदभिन्नत्वस्य
मात्रपदार्थत्वात्सत्तामात्रपदेनैवाशेषराहित्यप्राप्तौ इयं व्याप्तिरलौकिके
कुतो नेत्याकाङ्क्षायां तत्र तदभावं व्युत्पादयन्ति । विशेषाहीत्यादि।
मृलसत्तायामिति । आत्मरूपायां सत्तायां । तस्य कारणतेति ।
मूलसत्वसमवायिता । निरीहपदं व्याकुर्वन्ति । पूर्णमित्यादि । ननु
कार्येऽपि न चेष्टा नियता । आकाशादौ व्यभिचारादित्यत आहुः ।
आकाशेत्यादि । चेष्टा हि व्यापारः । ननु
माहाभाष्यकृताव्यापारश्चेष्टात्वेनाङ्गीकृतः नत्यन्यैरत आकाशे चेष्टाराहित्यं
न कारणासाधारण लक्षणमित्यत आहुः । आवरणेत्यादि
आकाशापगमस्यापीति । आवरणकृतावितिशेषः । तथाच
दीपचलनेन्धकारचलनवदाकाशेऽपि दृष्टानुरोधान्नैमित्तिकीचेष्टाङ्गीकार्या
अन्यथा तादृशप्रतीनिविशेषत्वापत्तेः । नच सा भ्रम इति वाच्यम् ।
किं तावता । भ्रमत्वेऽपि स-
१ व्यापकरूपता।
- ↑ १