क्लपटादेामत्वं तद्वत् । वस्तुविशेषजन्यक्रियाविशेषजसंयोग स्यैव तत्र
कारणत्वादिति न चात्र प्रद्यनानिरुद्वयोः क्रमेण निरूपणेकिंमानमिति
वाच्यं श्लोकारंभे तत्तत्कार्यबोधकजन्मपदत्रिलोकस्थितिपदयोरेव मानत्वात् ।
तंत्रे प्रद्युम्नस्य सृष्टिकत्वेनानिरुद्धस्य पालकत्वेनैव प्रसिद्धत्वात् । उभयत्र
कार्यातरनिर्देशस्तु योग्यतामादाय । वासुदेवार्थत्वायवेति न कोपि दोष
इति दिक् आग्रिमे संकर्षणात्मकमाहेति । कार्यनिरूपणमुखेन तथाहेत्यर्थः
शेषं स्फुटम् ॥ २१ ॥
अयंत्वित्यत्र पूर्वार्थमिति । लक्ष्यत इतिवैयाकरणमतेन वाक्ये शक्तिमंगीकृत्य पूर्वोक्तरीत्याकंसकर्तृकोदायुधाभिसरणसंसर्गरूपस्य शक्यार्थस्य सम्बन्धोगमनादाविति तादृशोभिप्रायस्याजहन्स्वार्थया लक्ष्यते । तदवाचकत्वेऽपि तत्प्रतीतिजनकत्वमिति तात्पर्यलक्षणांगीकारे तु तात्पर्यगोचरीक्रियत इति वार्थो बोध्यः ॥ २२॥
अथैनमित्यत्र॥ इति तदर्थमिति ॥ एवं प्रकारक श्रीदेवक्या- शयज्ञापनार्थं तीति । भगवन्निमित्तमेव ॥२३॥
अष्टभिरिति । नन्वष्टभिः स्तोत्रोक्तौ पूर्वोक्तकारिकासु पञ्चभिरितिसंख्योक्तिविरोध इतिचेत् । अत्रेदं प्रतिभाति । पूर्व द्वाभ्यां चैव तथा परािमेतिचकारसूचितेन तृतीयेनापि प्रार्थनं लभ्यते । पञ्चभिः स्तुतिस्तु टिप्पण्यामुपपादितैव एवं सति त्रयमिदमपि तत्र संगृहीतमिति न विरोध इति अष्टानामर्थमाहुः आधिदैविकमित्यादि। रूपत्रयं क्रमतस्त्रयाणां हेतुस्तुरीयस्य प्रकृत इत्यारभ्य पंचमस्येदानीमित्यारभ्य सिद्धेदित्यंत षष्टस्य । तत्तात्पर्यं टिप्पण्यामाहुः। युद्ध इत्यादि । रूपेत्यादि सप्तमस्य स्वस्येत्यादिकमष्टमस्य तदेतत्कारिकायां संगृह्णन्ति । रूपेत्यादि । प्रार्थना त्रितयमिति । तच्चतुष्टयघटितं श्लोकत्रयं । रूपादर्शनप्रार्थनस्य रूपोपसंहारप्रार्थनायामेव प्रवेशात्प्रार्थनात्रयं वा विज्ञानमित्यादिकं चतुष्टये प्रत्येकमन्वेतीति बोध्यम् रूपं यत्तदित्यत्र स्वाभिज्ञानमिति । स्वस्य भगवत्प्रत्यभिज्ञानं अन्यथेति अस्यापि लोकसिद्धत्वे आकांक्षावैपरीत्येपीति यत्प्राहुस्तद्रूपमित्याकांक्षायामपि । वैलक्षण्यादिति आधिदैविकादस्य वैलक्षण्वदित्यर्थः । अत्रैवेति । जगत्सलक्षणत्वेन प्रतीयमान एवास्मिन् रूपे । कारणस्य गुणातीतत्वे युक्तिमाहुः । गुणानामित्यादि कारणतेति कर्तृता तत्र हेतुः । स्वातन्त्र्याभावादिति। तथाच गुणानां कारणत्वे श्रुतिवि-