पृष्ठम्:श्रीसुबोधिनी.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।


रोधाभावमुपपादयन्ति । आज्ञेत्यादि । प्रकारान्तरेणाप्युपपादयन्ति । किश्चेत्यादि । तथाचानीहत्वादिकं गौण्यात्रोच्यते । अतो न विरोध इत्यर्थः । तुरीयपादं व्याकुर्वन्ति । तथेत्यादि । तद्वारेति । आधारत्वद्वारा । ननु पूर्वोक्तहेतुद्वयेन कर्तृत्वाकर्तृत्वयोरविरोधे सिद्धे पुनरुपचारेणाविरोधसाधनस्य किम्प्रयोजनमित्य xxxxxयां तत्प्रयोजनं टिप्पण्यामाहुः । अविरोध इत्यादि। द्वितीयकोटयुपस्थितिरिति । कर्तृत्वकोटशुपस्थितिः। हेत्वन्तरमिति ।xxxxxदाश्रयत्वादिति हेत्वन्तरं । तच्छङ्कयति । विरोधशङ्कया । तथाच मूलानुसरणं प्रयोजनमित्यर्थः । ननु मूले उपचारपक्षः किमित्युक्तं इत्याकाङ्क्षायां यत्सुबोधिन्यां वस्तुतस्त्वित्यादिनोपपद्यत इत्यन्तेनोkक्तम् तद्विवृएवन्ति । वस्तुतस्त्वित्यादिज्ञेयमित्यन्तं तथाच मूले गुणेषु कर्तृत्वोपचार इत्याशयो ननु भगवति तदुपचारएवञ्च सुबोधिन्यां गुणा एव कर्त्तार इत्यस्य अतएनेत्यस्याभिमानादेवेत्यर्थो ज्ञेय अतो न विरोध इत्यर्थः ॥ २० ॥

 सुबोधिन्यां श्लोकार्थ निगमयन्ति । एवं जगत इत्यादि अग्रिमे वासुदेवात् । प्रद्युम्नतश्च वैलक्ष्यल्येनानिरुद्धं निरूपयितुं पूर्वोक्तमनुवदन्तः प्रस्तुतमवतारयति । इदमित्यादि । प्रद्युम्ने प्रकृतिजननहारइदमुप्ततिस्थितिप्रलयात्मकत्वमाध्यात्मिकत्वेन अध्यात्मं भवत्वेनोपादानतया निरूपितम् । अतः परमधिदैवं भगवत्वेन प्रयोजकतया अंशत उपादानतया चानिरुद्धं जगत्र्त्तारमुपपादयन्ति । तथाच वासुदेवस्तटस्थत्वेन प्रद्युम्नउपादानत्वेनानिरुद्धः प्रयोजकत्वादिना कारणमित्येवं भेदमुपपादयन्तीत्यर्थः । तद्व्युप्तादयन्ति । तथाच पितृवदंशविशेषेणोपादानभूतः । कृषिबलेन्द्रब्रह्मादिवदनेकधा स्वक्रियारूपव्यापारेण प्रयोजकश्चानिरुद्ध इति वासुदेवादिभ्यो विलक्षण इत्यर्थः। ब्याकत्तुंमवतारयन्ति । तत्रेत्यादि शान्त्येति । स्वश्रिया शान्त्या । न गुणावताररूपेषु सत्वस्य श्यामस्तमसश्च शुक्लो वर्णो निरूपितः । प्रकृते च विपरीत इति कथं प्रसिद्धिभेदसमाधिरित्यत आहुः। प्रसिद्धिः कृते शुक्ल इत्यादि । उपाधिकालरूपाणीति । सत्वरजस्तमसामुपाधिभूतकालरूपाणि । तदर्थमिति । रूपनिरूपणार्थं । तथा चात्र स्थितये सर्गाय जनात्यये इति कार्यनिर्द्देशात्सत्वतमसीक्रियाव्याते सती विपरीतरूपे भवति इति न गुणावतारवर्णवाक्यविरोधः। यथा गन्धकधूमेन जवाकुसुमादेःश्वत्यं धूमांतरेण शु-.