पृष्ठम्:श्रीसुबोधिनी.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
जन्मप्रकरणम्अध्यायः


तदैव तथा दर्शनसिद्धिरिति व्याख्यानसंदर्भार्थः । नन्वत्र मायावादसिद्ध्या वैदिकसिद्धान्तविरोधः शङ्कनीयः । आमासाभास्ययोर्बिम्बप्रतिबिम्बयोश्च समानाकारत्वनियमेन तस्यैतत्प्रयोजकतयाविरोधाभावात् तन्मया पूर्वमनुमानेनैव साधितं । उत्तरतापनीयटीकायां भाष्यप्रकाशे च xxxदितमितिततोऽवधेयं एवमेव श्लोकं प्रभुचरणाः पूर्वोक्तब्रह्मवादरीत्या व्याकुर्वन्ते । अथवेत्यादि । दृश्येष्विति भगवदिच्छया भक्त्या xxx धर्मिग्राहकमानेनेति उभयव्यपदेशसूत्रबोधितेन इतिभावः । इतिहतोस्तादृश्यमुपाददबुधएवेति भाव इत्यर्थः । तथाच तन्त्रेऽपि भिन्नस्य जगत एव वैराग्यार्थमसत्वमुच्यते न तु स्वरूपात्मकस्येति तन्त्रमयि वेदे न समानं मोक्षधर्मे पञ्चरात्रस्य तथात्वनिश्चायनादितिबोधनार्थमेवं व्याख्यातमतो न कोऽपि दोष इत्यर्थः । श्रीधरीये व्यवस्यत इत्यात्मनेपदमवदर्शनात्तस्मिन् पाठे पूर्वोक्तो न सङ्गच्छत इति तेन पाठेन व्याख्यानान्तरमाहुः । अथवेत्यादि । स्वस्य दृश्येविति स्वेन्द्रियसामर्थ्येन दृश्येषु करपादादिष्विति । भगवत् करपादादिषु ' वत्तमान इति व्याप्य स्थितः । तेष्वात्मत्वेनेति इदमस्वव्यतिरेकपदस्य व्याख्यानं । तथाच तेषु करपादादिषु भगवदभिन्नत्वेन जीववदभिमतादभिन्नत्वाज्जीववदभिमानेन भगवान् वर्तमान इति यो व्यवस्यते सोऽबुध इत्यर्थः ॥ १८॥

 त्वत्तोस्येत्यत्र प्रद्युम्नरूपमिति यो भवान् प्रत्यक्षगोचरः परब्रह्मतया वासुदेवत्वेन निरूपितस्तमेवेश्वरत्वब्रह्मत्वाभ्यां प्रद्युम्ररूपत्वेन निरूपयतीत्यर्थः । निरूपित इति । पञ्चरात्रे निरूपितः । तत्प्रकारमाहुः । स्मृतिरित्यादि । प्रकृतिमिति । रजः सत्वतमोमयीभूतप्रकृति । प्रकृतौ । स्त्री एव प्रधानभूतेति । प्रकृतिसमीपे शाक्तमते स्त्री एव मुख्या । उप्ताद्यत इति । परुष उप्ताद्यते । वासुदेववदिति बिम्बप्रतिबिम्बन्यायेन । अस्तु तथैवेति । सामर्थ्यासाक्षात्कर्तृत्वमस्तु । अघटमानमेवेति । कर्तृत्वमभटमानमेव । तर्हि विरोध इति । सामर्थ्यसत्तायां विद्यमानायामप्यकर्तृत्वे सति कर्तृत्वाऽकर्तृत्वयोर्विरोधे । तत्राहेति । वासुदेवाद्भेद्म् वक्तुं कर्तृत्वाकतृयोर्विरोधाभावे हेतुमाह नैव कृत्येनेति नैकतरपरित्यागकल्पना । ननु ब्रह्मत्वेन सर्वभवनसामर्थ्यप्यविकृतस्य विद्यमानत्वा जगदकरणेऽस्त्येव विरोध इत्यत आहुः । किञ्चनेत्यादि नापेक्ष्यन्त इति कर्तृत्वार्थं नापेक्ष्यं ते वि-