पृष्ठम्:श्रीसुबोधिनी.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः ।


पवामित्यादिवैदिकप्रकारे यज्ञोग्निहोत्रादिपञ्चात्मकः । अत्र च भिन्नत्वनिराकरणे सर्वस्य सर्वस्य सर्वात्मन इति विशेषणद्वयेन सर्वरूपत्वसर्वात्मकत्वप्रतिपादनात् पश्चात्मकः स भगवानिति पञ्चरात्रस्मृत्युक्तपश्चात्मकत्वस्याप्यर्थादेव सिद्धेः श्लोकसंख्या सूचिता यज्ञात्मकताप्यर्थादेव सिद्धा । उत्तरकाण्डोक्तं साकारं ब्रह्मत्वं तु व्याख्यानेन समर्थितमतो वैदिकप्रकारेण तथानिरूपित इत्यर्थः अग्रिमे ॥ १७ ॥

 एवं वैदिके प्रकारे निरूपिते सति य आत्मन इतिवक्ष्यमाणश्लोकस्थं प्रमेयं भगवप्तक्षे पुनरुक्तं भवति प्रपञ्चपक्षे च सर्वात्मकत्वविरुद्धं भवतीति कथमविरोध इत्याकाङ्क्षायां मतान्तरमिदमित्याशयेनाहुः । तन्नेत्यादि । प्रथम इति । परब्रह्मरूपः । यत्प्रवदन्तीति । इत्थंविचिन्त्य परमः स तु वासुदेवनामा बभूव निजकारण मुक्तिदाता तस्याऽज्ञयैव नियता परमाऽपि रूपं वव्रे । द्वितीयमिव यत्प्रवदन्ति मायामिति पञ्चरात्रवाक्यात् । सृज्यत इति। नृसिंहोत्तरतापिनीयोक्तप्रकारकं व्यावहारिकमसऋज्यते । तन्मतमिति । तादृशं पञ्चरात्रं मतं अन्तरेव बहिर्वेति । स्वान्तरेव स्वस्माद्वहिः पराक् देशे वा आत्मभूतस्येति । केवलचिदानन्दरूपस्य । दृश्येष्विति । लौकिकेन्द्रियसामर्थ्येन दृश्येषु । आत्मनेति अन्तर्वर्तिना भगवता अनुभवातिरेकेणेति । प्रतिभासातिरेकेण आत्मनो बन्धकेष्वितिगुणशब्दस्यार्थः । गुणानां रज्जुरूपत्वेन दृष्टबन्धकत्वादिति । व्यवस्यतीति निश्चिनोति तादृशस्याबुधत्वं व्युत्पादयन्ति । अस्तीत्यादि । आत्मव्यतिरेकेणेत्यस्यैव व्याख्यानमात्मसम्बन्धेत्यादि न भवतीति तथाचानुवादस्य प्रतीतमात्रसापेक्षत्वात् प्रतीतेश्चाभावस्य सत्तामात्रात् दोषविशेषण द्विचन्द्रप्रतीतवत् सिद्धेरनुवादेनैव तदा कलितं भवतीति न तेन सन्घातसत्तासिद्धिरित्यर्थः। तत्राहेति । सत्वोत्पत्तौ प्रतीतो दोषमाह । दूरेग्रहणादबुधएव सः । गृह्णातीति सत्वेन गृह्णीति । पुरुषोऽपि भूत्वेति पुरं उपति दहतीति पुरुषस्तादृशोऽपि भूत्वा । समीप इति गृह्यत इतिशेषः। तथाचासत्वसिद्धीत्यत्र सत्वशब्देन सत्ता ज्ञेया। अविचारेण ग्रहणात् । ग्रहणमिति । आदरेण । येनैव प्रकारेणेति । आत्मव्यतिरिक्तत्वेन न प्रकारेण तथाच व्याख्यानारम्भे अन्तरे वेत्यारभ्य चिदानन्दरूपो दृष्टव्य इत्यन्तेन यदुक्तं तदेव सिध्यतीति लौकिकेन्द्रियसामर्थेन दृश्येषु व्यावहारिकेषु संघातरूपेष्वर्थेषु वैराग्यार्थमसद्बुद्धिरेव कार्या ।