पृष्ठम्:श्रीसुबोधिनी.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
जन्मप्रकरणम्अध्यायः


द्भावे प्रमाणमित्यर्थः । एतेन मूलस्थं बुध्यनुमेयलक्षणैरिति पदं व्याख्यातं ज्ञेयम् । तेन सिद्धमाहुः । अनेनेत्यादि । युक्तिरप्रयोजकेति दृश्यस्य प्राकृतत्वकथने द्रश्यस्याप्राकृतत्वं यदङ्गीकृतं सा युक्तिरनुकूलतर्कशून्येत्यर्थः । एवमप्रत्यक्षत्वेनाप्राकृतत्वेन व्याप्ती दूषितायां पुनराशङ्कान्तरमवतारयन्ति । नन्वित्यादि । प्रसिद्धानुमाने यथा व्यापकस्य वह्नेय॑भिचारो न दोषाय तद्वदत्र अप्राकृतोऽप्रत्यक्षत्वादित्यनुमानप्यप्रत्यक्षत्वस्य व्यभिचारो न दोषाय अयं प्राकृतः प्रत्यक्षत्वादित्यनुमानाङ्गीकारात् तथा सति यत्प्रत्यक्षं तत्प्राकृतमेवेति व्याप्तौ तु न दोषोऽतस्तथेत्यर्थः समाधिं व्याकुर्वन्ति । सर्वत्रेत्यादि। तथाच व्यतिरेकव्याप्त्या अप्रत्यक्षत्वस्यापि सिद्धेर्लौकिकरूपादिसम्भूतस्याप्यप्रत्यक्षत्वान्नानन्दमयत्वबाध इत्यर्थः। पुनराशङ्कते। क्वचिदित्यादि । तत्राहेति । बाधकयुक्तेरप्रयोजकत्वमाहेत्यर्थः । तद्व्युत्पादयन्ति । नहीत्यादि । न दुष्टं भवतीति प्राकृतः क्वचित्प्रत्यक्षत्वादित्यनुमानोऽपि हेतोरिन्द्रियसामर्थ्येनोपहितं व्यभिचारित्वमप्रयोजकत्वं चेत्यतो नानेन हेतुना दर्शनं दुष्टं भवतीत्यर्थः । दोषं व्युत्पादयितुं प्रमाणमाहुः । पराञ्चीत्यादि । तथाच पराकूपदादिन्द्रियसामर्थ्येनोपहितत्वमैक्षदित्यनेन व्यभिचारः श्रुत्या प्रदृश्यते । तत एवाप्रयोजकत्वमपि सिध्यतीति श्रुतिरेवात्रमानमित्यर्थः । सिद्धमाहुः । तस्मादित्यादि । तस्मादितिश्रुत्या प्रतिपक्षहेतौ दोषप्रदर्शनात् । उत्तरार्द्धमवतारयन्ति । भिन्नत्वेनेत्यादि । बाह्यपरिहारं व्याकुर्वन्ति । वाह्येत्यादि । पूर्वमवोचमितितृतीयस्कन्धे कापिलेये आकाशलक्षणे बहिरन्तरमेव चेत्यर्थः । तदपीति आकाशकृतं बाह्याभ्यन्तरत्वमपि । अन्यस्मादिति दृष्ट्वा उपपादितेवेति । भगवदिच्छयैवोपपादिता । तथाच न बाह्यत्वप्रतीतकृतआनन्दमयत्वबाध इत्यर्थः । एतेनैवाभिन्नत्वं कृतस्यापि परिहारमाहुः। परीत्यादि । परिछिन्नत्वेहि भिन्नत्वं व्यापकत्वेन तस्मिन्परिपहतभिन्नत्वमपि परिहतप्रायमेवेत्यर्थः । कथमित्याकाङ्क्षायां तत्र हैतुत्रयमवतार्य व्याकुर्वंति । अस्मिनित्यादि। विवेचनीय इत्यन्तं व्यावर्तकत्वमिति भेदकत्वं । अग्र इति उलूखलबन्धस्थले तथाच परिछिन्नतयाभिन्नात्वस्यापि स्वेच्छया कृतत्वात्रतत्प्रतीत्याप्यानन्दमयत्वबाध इत्यर्थः । एवमेतैः श्लोकैर्दोषपरिहारेण विदितोऽसीति प्रतिज्ञा समर्थिता । उपसंहरति ॥