पृष्ठम्:श्रीसुबोधिनी.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।


सर्वाकारत्वे सर्वात्मकत्वे च सिद्धे नाद्वैतश्रुतिविरोधः । अविद्यादिवदभेदस्यापि भेदविरुद्धसम्पद्रूपत्वादिति इदं चादृश्यत्वादिगुणाऽधिकरणादवगन्तव्यं बुध्यनुमेयत्यत्र दूषणान्तरं व्युत्पादयन्ति । नन्वित्यादि अन्यथेति । साधनं विनैव दृश्यत्वे सर्वमुक्तिश्चेति चकारेणसर्वाभावकृतो लीलाया अभावः समुच्चीयते । हीति श्रुतिविरोधरूपाद्धेतोः तत्राहेति तादृश्यामाशङ्कायां इन्द्रियसामर्थ्येनाग्राह्यत्वादिकमाहेत्यर्थः। तदुपपादयितुं व्याकुर्वन्ति । बुद्धेत्यादि । बुद्ध्येति उपलब्ध्या लक्षणमिति । ज्ञानकरणत्वम् । सामर्थ्यमिति । दर्शनाभावेनैव तथा निश्चयादित्यर्थः । ननु माऽस्तुलौकिकेन्द्रियग्राह्यत्वं तथाप्याधिदैविकेन्द्रियाणां भगवद्विभूतिरूपत्वाद्भगवतद्ग्राह्यत्वंत्वदण्डवारितमित्यत आहुः । नवेत्यादि अन्यार्थमिति। लौकिकेन्द्रियेषु सामर्थ्याधानार्थम् । तथाच यथा उदरम्दहरविद्यायां नाडीरुपक्रम्य अमुष्मादादित्यात्प्रतयन्त इत्यादिनोक्तो नाडीसूर्यरस्मिसम्बन्धः देहानिषुमणसमये जीवस्य मार्गप्रकाशनमात्रं करोति नतु कार्यान्तरं तद्वदित्यर्थः। ननु सामर्थ्याधानवद्ग्राहकत्वमप्यङ्गीकायमिति चेत्तत्राहुः । ग्राह्येत्यादि । इन्द्रियैर्यद्ग्राह्यं रुपादितत्स्वरूपत्वादित्यर्थः । इदञ्च द्वितीयस्कन्धे प्रथमाध्याये घ्राणञ्च गन्ध इत्यादौ स्पष्टम् । ननु तथापि तेषां देवरूपत्वेन सत्वप्रधानत्वाद्भगवद्रहणसामर्थ्यं कल्प्यामितिचेत्तत्राहुः । नवेत्यादि । विषयाणां सम्बन्धि यः सन्निकर्षः संयागरूपः स. स्वाधिदैविकैः सह न किन्त्वाधाराधेयभावरूपः स्वरूपसम्बन्धस्तस्मिश्च ग्राहकसम्बन्धत्वं न क्वचित्सिद्धमतो न कल्पयितुं शक्य इत्यर्थः । सिद्धमाहुः । अत इत्यादि । यत आधिदैविकानामन्यार्थत्वग्राह्मस्वरूपत्वाभ्यां न ग्राहकत्वमाध्यात्मिकानां तु सन्निकर्षराहित्यान्न तथात्वमतो न ग्राह्य स इत्यर्थः। ननु माऽस्तुविषयप्रत्यक्षे भगवद्ग्रहः सन्निकर्षाद्यभावात् । इन्द्रियाधिदैविकरूपाणि तु इन्द्रियमध्यवर्तीन्येव तथाचेन्द्रियं स्वस्वरूपं गृह्णन्तत्स्वरूपमपि गृह्णात्वितिचेत्तत्राहुः । इन्द्रियाणामित्यादि । आत्माग्राहकत्वादिति। इन्द्रियस्वस्वरूपाग्राहकत्वात् । तथाच तन्न स्वयं स्वग्राहकमतस्तत्सहभूतस्य गवतोऽपि न ग्राहकमित्यर्थः। नन्विन्द्रियाणामप्रत्यक्षत्वं चेत्तर्हि इन्द्रियसद्भावे किं मानमित्याकाङ्क्षायां नैयायकादिप्रसिद्धमनुमानमेव मानत्वेनाहुः । अत इत्यादि । तथाचानुमानमेवतत्स-