अग्रिमे ततः कथमिति । कारणरूपेण पृथिव्यादिप्रतीतो भवतु
समाधानं ननु कार्यरूपेणापि प्रतीतौ । कार्यस्य जन्यत्वादतः कथं तत्राहेति ।
तादृश्यामाशङ्कायां गाद्यात्मककार्यरूपेणापि प्रतीयमानस्य दृष्टान्तमुखेन
नित्यत्वमविकृतत्वं चाहेत्यर्थः । मिलित्वेति । पूर्व विकृतैः सहेत्युक्त ।
स सहभावः निमित्तभूतानामिवापि सम्भवतीति तद्व्युदासार्थ दुग्धं
जलादिवदुपादानत्वेन मिश्रिभूय पूर्वानुवाद इति । जनयन्तीत्यस्यानुवादः ।
वर्त्ततइति । तदभिध्यानादेव तु [१]तल्लिङ्गात्स इति न्यायेन वर्तते ।
अन्यथाकार्याजन्यात्कार्यान्तरं न स्यात् । अनुगता इवेति । पटे तन्तव
इव समाविति । ब्रह्माण्डे अन्यदपीति । तेजोवायुव्योमापि ।
तथाचानुगतत्वात्कार्ये कारणभूतानां तत्त्वानां सत्तादृष्टान्तेनोपपोदिता ।
अतः परं तेषां तत्त्वानां बीजाङ्करवत् [२]कृत्स्नप्रसक्तिवारणायावतारयन्ति । तर्हीत्यादि । भवन्वति कार्यमात्ररूपा भवन्तु समाधिं व्याकुर्वन्ति । प्रागित्यादि ।
इहेति । स्व[३]रूपे ब्रह्माण्डोपरि च इहोत्पत्तिरिति कार्ये पुनरुत्पत्तिः ।
विलक्षणत्वादिति । कृत्स्नप्रसक्तिवारणार्थं कार्याऽनवयवतयातिरिक्तत्वेन
विद्यमानत्वात् । ननु तत्रानुगमो बीजाङ्करन्यायेनास्तु जातेऽङरे
कथमिहोपलभेद्बीजामति सप्तमस्कन्धे प्रल्हादवाक्याञ्चति चेतत्राहुः ।
साक्षादित्यादि । तथाच। त्वगादीनां बाजाङ्कुरन्यायकप्रवेशस्तु
माती पित्रोः शरीरे तेषां विद्यमानत्वप्रतीत्यैव बाधित इत्यर्थः ।
एचमाधिदैविकानां कारणभूतानां तत्त्वानां व्यतिरेक दृष्टान्तेन
साधयित्वा फलितमाहुः । यथेत्यादि । न कोऽपि विरोध इति
शास्त्रसिद्धत्वात्तद्विसंवादिप्रतीतकृतो विरोधोऽकिञ्चित्करत्वान्नेत्यर्थः ॥ १६ ॥
अग्रिममवतारयन्ति । पत्रमित्यादि । अतिदेशियुक्तिमाहुः । अन्यथेत्यादि । तथाच व्यावहारिकः प्रपञ्चः स्वसत्तोत्कृष्ट सत्ताकप्रपञ्चपूर्वकः मायिकप्रपञ्चत्वात् ऐन्द्रजालिकप्रपञ्चवदितिन्यायेन पारमार्थिकप्रपञ्चसिद्धौ पश्चात्तत्स्वरूपे विचार्यमाणे । यदेकमव्यक्तमनन्तरूपमिति । यदक्षरे परमे प्रजा इत्यादिजातीयकश्रुतिभिः द्वितीयस्कधीयचतुश्लोकोक्तप्रकारेण च ब्रह्मरूपत्वं पर्यवस्यति । एवं ब्रह्मणः
१ आकाशादायुरित्यायुत्पतिस्तदृ आब्रह्मण एव तदात्मकत्वात् स ईश्वर एवं कर्ता,तत्र हेतुः तलिङ्गात्सर्वकर्तृत्वस्य ब्रह्मालगत्वात् ।
२ साकल्येन-सर्वभावनेत्यर्थः ।
३ विराड्स्वरूपे ।