पृष्ठम्:श्रीसुबोधिनी.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।


योगीप्रपञ्चस्य ब्रह्मात्मकत्वमभिप्रेतमित्युक्तम् । इह तु त्रिगुणात्मकत्वमुच्यत इति कथमविरोध इत्यत आहुः। यथेत्यादि ज्ञेयेत्यन्तम् । मायासाभ्यस्य दौर्बल्यमभिप्रेत्य पक्षान्तरमाहुः । अत्रिगुणात्ममिति वेति अकारप्रश्लेषमनङ्गीकृतपक्षान्तरद्वयमाहुः । यद्वत्यारभ्य उक्तरीत्येत्यन्तम् ॥१४॥

 यथेमे इत्यत्र । सुबोधिन्याम् । प्रतीयन्त इति । शरीररूपेण पृथ्वी । मुखे मुख्या आपः कान्तिरूपं तेजः सर्वत्र । प्राणरूपो वायुनासिकायाम् । छिद्रष्ववकाशरूपेणाकाश इत्येवं प्रतीयन्ते । तत्राहेति । तादृश्यामाशङ्कायां स्वरूपे प्रतीयमानानां तेषां दृष्टान्तमुखेनेत्यर्थः । दृष्टान्तं व्युत्पादयन्तो मूले यथेत्यस्थ विराजं जनयति हीति चतुर्थपादेनान्वय इत्यभिप्रेत्य व्याकुर्वन्ति । यथेत्यादिप्रतिपादितानीति । उपलक्षणाविधया प्रतिपादितानि तत्रतत्रति । तेषु तेष्विन्द्रियेष्विव तेषु तेषु तथैवेति । तादृशैरविकृतसदृशैः । अयं मूलस्थस्य तथात इत्यस्य विवरणम् । त इति वश्यमाणा ये विकृताः । वस्तुतस्तु तथैव विकृतैः सहेति पाठो भाति । सहेत्यन्तस्य एकस्मिन्नित्यनिमग्रन्थेनान्वयः नानावीर्या इत्यादिकन्तुविकृतोर्दुविकृतयोः सा धर्म्यबोधनाथम् । शेषं स्फुटम् । तथा सत्येवं योजना । इमे आविकृता भावा नानावीर्याः पृथग्भूतास्तथा तादृशास्ते वक्ष्यमाणाः विकृता भावाः । तथैवेति वा पाठः विकृतैः सह यथाविराजं जनयन्ति हीतिबोध्यम् । एवं दृष्टान्तं व्याख्याय दार्ष्टान्तिके योजयति । तथाप्रकृतेपीत्यादि तानीति । विराड्जनकान्यविकृतानि तत्वानि । न कोऽपि दोष इति पृथिव्यादि भूतदर्शनकृतो यः स्वरूपेऽनित्यत्वविकृतत्वादिप्रतीतरूपो दोषः सोऽपि नेत्यर्थः। न च विकृतैस्तथैवेत्यादिना चतुर्विंंशतितत्वानां विकृतत्वं आधिदैविकं तत्र प्रवृष्टेन प्राकृतत्वं कथं प्रकृतितत्वे विकृतत्वकं कथं सङ्गच्छते प्राकृतत्वये सांख्यैः पौराणिकैश्वानङ्गीकारादिति वाच्यम् । एकादशस्कन्धे द्वाविंशाध्याये । प्रकृतिः पुरुषश्चेति विकल्पः पुरुषर्षभ एष वैकारिकः सर्गो गुणव्यतिकरात्मक इत्यादिना प्रक्रातिपुरुषयोरपि विकल्पत्ववैकारिकत्वगुणव्यतिकरात्मकत्वानां भगवतैवाङ्गीकारात् । सिद्धान्तस्य च भगवत् प्रतिपादितत्वात् ब्रह्मवादे ब्रह्मातिरिक्तस्य सर्वस्यापि विकारत्वात् । याच द्विकारन्तु विभागो लोकवादिति सूत्रोक्तन्यायकृतत्वेप्यङ्गीकारे बाधकामावाश्चेति ॥१५॥