पृष्ठम्:श्रीसुबोधिनी.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
जन्मप्रकरणम्अध्यायः


क्तोर्थो सीतिकल्पना क्लेशश्च न भवतीत्यतस्तथेत्यर्थः । भवच्छब्दसङ्गत्यभावारुच्यते । अध्याहृतेनत्वं पदेन भवत्पदकार्यसिद्धेस्तदसङ्गत्यरुच्या तदभिमानित्वेनेति भातीति भवान् प्रकाशमान इत्यतोभिमानित्वेन सुबोधिन्यां प्राकट्यकरणादिति कौस्तुभपीताम्बराभ्यां प्राक्प्रकरणात् टिप्पण्यां तत्परिहार इत्यर्थः । इदं चाग्रे एतद्वांदर्शितं रूपमिति भगवद्वाक्याञ्च स्फुटी भविष्यति । तथोक्तत्वादिति । ज्ञातत्वस्योक्तत्वात् । ननु ज्ञातत्वस्य प्रामाणिकत्वे अप्राप्य मनसा सहेति श्रूतिविरोधस्तु दुष्परिहरइत्यतं आहुः । अन्यदेवेत्यादि । अपि शब्दानन्दं ब्रह्मणो विद्यानिति श्रुतिः संगृह्मते । अन्यथेति । समानकारणयोरेकविषये विदितत्वाविदितत्वयोः प्रामाणिकत्वे । तथाच वदतोव्याघातपरिहाराय विदितत्वाविदितत्वयोः स्वरूपभेदे सिद्धे लौकिक्रविदितत्वाद्भिन्नत्वस्य सिद्धत्वे सुखेन तस्यापि परिहार इत्यर्थः । सुबोधिन्यां अत इति । अनुभवानन्दावेव स्वरूपं यस्येत्युदेश्य विधेय भावादित्यर्थः । परोक्षापरोक्षान्तर्यामिरूप इति अदृश्यरूपो दृश्यरूपोऽन्तर्य्यामिरूपश्चेत्यर्थः । आत्मेति । सर्वात्माषड्विध इति । क्षराक्षरपुरुषोत्तमान्तर्यामिदेहजीवभेदेन षड्विधः । यद्वा । सैंधवधनदृष्टान्तात् पूर्वमाधिभौतिकादित्रयरूपेणात्र सर्वान्तर्यामिदेहजीवरूपेणेत्यर्थः ॥ १३॥

 स एवेत्यत्र। कश्चन प्रकार इति । तथाच तैः प्रकारैर्यथा न सर्वरूपत्वव्यापकत्वादि हानिस्तथाऽनेनापीत्यर्थः । तथापीति । वैदिकप्रकारेपीत्यर्थः । आहेति । प्रवेशस्य भावनामात्रत्वादप्रविष्टत्वमाहेत्यर्थः । तदुपपादयन्ति । योगेत्यादि । यथानुगमाधिकरणविषयवाक्ये योगबलादिन्द्रः परमात्मनि प्रविष्टस्तथेत्यर्थः । दक्षिणायां वेति वा शब्द इवार्थे ज्ञेयः। प्रकारान्तरेणापीन्द्रप्रवेशमाहुः। दितेरित्यादि। तथेति । सोपाधिकः कार्याभिनिविष्टश्च वा । तथाचानुपाधिकत्वं कार्यार्थतया प्रवेशभावनाचोपपद्यत इत्यर्थः । प्रकारसंदेहं परिहर्तु व्युत्पादयन्ति । तर्हित्यादि । इत्यर्थः इत्यन्तम् । आधिदैविकस्वभावेनेत्यस्य तात्पर्यं तत्र प्रमाणञ्च टिप्पण्यामाहुः आधिदैविकेत्यादि। सुबोधिन्यां अपेक्षत इति । साक्षित्वप्रकाशननियमाद्यर्थमपेक्ष्यते । ननु स्वार्थसृष्टाविति । स्वार्थसृष्टौ कारणतया विद्यमाने नैवरूपेणान्तर्यामिकार्यस्य च कारणान्नापेक्ष्यते । ननु तमद्भुतमित्यत्र लीलोप-