पृष्ठम्:श्रीसुबोधिनी.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः ।


हेतुमाहुः । अङ्गाद्यतीत्यादि । कर्मणः सुकृतः स्याहुरिति वाक्यात् विदेहकैवल्यसम्पादकत्वेन सात्विकं तदित्यर्थः । तदिति । कङ्कणमित्यर्थः । राजसत्वं च तस्य चलत्वाद्भाति । नन्वेकस्यामेव क्रियाशक्तौ प्रतिष्टितयोः शास्त्रबोधितकर्मरूपयोस्तयोर्द्वैविध्यं कथं सङ्गच्छत इत्यत आह । सात्विकेत्यादि । कोरितिशेषः । विलक्षणाधिकारिकर्तृत्वेनैकस्य कर्मणो विलक्षणत्वञ्च गीतायां नियतं सङ्गरहितमित्यादिना स्फुटमिति न सङ्कालेशः। तैरिति । शास्त्रोक्तकर्मरूपाभरणैः । तैर्विरोचमानत्वे गमकमाहुः । वेदइत्यादि । हरिवंशे पुष्करप्रादुर्भावसमाप्ताविदं पट्यम् । शुकआइति । दर्शनाङ्कनार्थकमैक्षतेति पदमाहेत्यर्थः ॥ २०॥

 स विस्मय इत्यत्र । एतत् सर्वपरिज्ञानइति । दानस्तोत्रस्वाधिकाराणां परिज्ञाने । पूर्वोक्तइति ईक्षणकर्तृत्वेनोक्तः शुद्धसत्वात्मकः । अलभ्यलाभादित्यादि । एतेनार्थिता उक्ता । नैमित्तिकमपीति । नैमित्तिकविषयकमित्यर्थः । तादृश इति समीचीन भ्रमयुक्त इत्यर्थः ॥१२॥

 अथैनमित्यस्याभासे । प्राकृतएव तस्य संस्कार इतिप्राकृते पुत्रे जाते तस्य पुत्रस्य संस्कारः ॥ १२ ॥

 विदितोसीत्यत्र । ज्ञातस्वरूपस्तोत्रे इति ज्ञातस्वरूपाभ्यां कृतस्तोत्रे इत्यर्थः । ज्ञातस्वरूपत्वं व्युत्पादयन्ति । यस्त्वित्यादि । तथाच यश्चाक्षुरत्वेन प्रतीयसे सोऽपि त्वं पुरुषोत्तमत्वेन विदित इत्यर्थः । नन्वत्र मुले युष्मशब्दाभावात्कथमेवं व्यवहारोक्तिरित्यतस्तदाशयं टिप्पण्यामाहुः। अत्रैवमित्यादि । व्यवहाराम। त्रोक्तिरिति तदभावेऽपिव्यवहारमात्रोक्तिः । अन्यलभ्यत्वाभिप्रायेणेति । शब्दार्थस्याक्षेपलभ्यत्वाभिप्रायेणेत्येतदर्थम् । व्यवहारोपपादनायाक्षेपलभ्यस्यापि ग्रहणे विद्वत्सम्मतिमाहुः । अतएवेत्यादि । अतएवेति । व्यवहारस्योपपाद्यत्वादेव तथाचासीतिप्रयोगेण शब्दएवाक्षिप्यत इतिभवत्पदेन वेदनकर्माकाङ्क्षा पूर्तावपि यदेवं प्रयोगस्तञ्चाक्षुषत्वेन ज्ञायमानस्यैव विदितत्त्वज्ञापनार्थ इति सुबोधिन्याशय इतिभावः । कल्पनाक्लेशापरिहाराय पक्षान्तरमाहुः । वस्तुत इत्यादि । समस्तम्पदमिति । असीतिविभक्तिप्रतिरूपकमव्ययम् ! तेन सहसमासं प्राप्तमेकं पदम । तथाच यथाऽस्तिक्षीरागौरित्यादावस्तत्यिव्ययं प्रथमपुरुषार्थे तथासीत्यव्ययमपि मध्यमपुरुषार्थे तस्य च भवच्छब्देन समासे पूर्वो-