पृष्ठम्:श्रीसुबोधिनी.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
जन्मप्रकरणम्अध्यायः


ण्यां । भूमेरित्यादि अयं च प्रकारो निबन्धे । त्रुटितः उपलक्षणविधया व्याख्यातो ज्ञेयः । तदेव स्फुटी कुर्वंति अथवेत्यादिना अत्र रूप विषये किञ्चिदाशंक्यपरिहरन्ति । हेतेत्यादि जार्नाहीत्यन्तं। तथाच निबन्धे आकाशपक्षस्य यद्व्याख्यानान्तरं प्रभुभिः कृतं तत्र प्रमाणप्रकरणोक्तमेव बीजमिति न तस्याचार्योक्तिविरुद्धत्वमिति बोधितम् । नचैवं सत्येते पक्षा अत्राचार्यैः किमित्युक्ता इतिवाच्यम् । वासुदेवादि व्यूहसाहित्यस्यात्र सत्वेन तद्रूपबोधनार्थत्वात् । नन्वनौपाधिकं चेदूपं मूलाभिप्रेतं स्यात्तदा पयोदष्टान्तो नोक्तः स्यात पयोदे नीलत्वस्य प्रावृट्कालोपाधिकवादित्याशङ्कायां तत्ताप्तर्यमाचार्यैस्तस्य धमा इत्यारभ्य स्निग्धप्रावृट्घनश्याम इत्यर्थः। इत्यन्तेन निरूपितम् । तथाचैतद्वोधनार्थ प्राकृतोपमानत्वौपाधिकरूपबोधनार्थ अत सद्वस्तु नस्तादृशत्वमाभिप्रेत्यैवोक्तमित्याशयेनाहुः । यस्त्वित्यादि । तथाच तस्य परोक्षत्वाऽपरोक्षवादत्वेनाप्युपपत्तित्वं ज्ञेयम् । अतो नवमित्यत आहुः। अन्नेत्यादि। तथाच प्रतिष्टाश्रुत्या लीलास्थानत्वमभिप्रेत्य उक्तमिति श्रीरूपत्व ब्रह्मरूपत्वञ्चन विरुद्धमित्यर्थः । शेषं स्फुटम् ॥९॥

 महार्हेंत्यत्र सुबोधिन्यां । भक्ताविति भक्तौ सत्यामित्यर्थः टिप्पण्यां। अत्रापि तद्रप इतिमौलो किरीटरूपः । अवगम्यते शास्त्रप्रायपाठादागम्यते। तथात्वमिति । शास्त्राभिज्ञत्वं । तादृशा इति शिष्यनिष्टभगवद्भक्त्या प्रसन्नः शास्त्रत्रयाभिज्ञः (यथामात्वमिति । शास्त्रभिज्ञत्वं । तादृश इति शिप्यनिष्टभगवद्भक्त्या प्रसन्नः शास्त्रत्र याभिज्ञः) यथा माहार्पोरुपिकत्वेन प्रसीदन् शुकस्तथा उद्दामेत्यत्र सुबोधिन्यां । एवं लोके ज्ञानमिति। शाखीयत्वेन रूपेण लोकेऽने कविधतां प्राप्तं भगवद्विषयकं ज्ञानमित्यर्थः । चतुर्भुजमित्यत्र यत् ज्ञानं निरूपितं तदलौकिकमिति ततो भेदज्ञापनायात्र लोकपदं जनयिष्यन्तीति । कर्मणा सजातीयोत्पादनस्वभावत्वाज्जनयिष्यन्ति । हिंसाप्रचुरापीति । अनेन वैराग्यरूप्यता स्फुटीकता बोध्याः । शङ्खगदादीत्यत्रेवात्र वैदिककृतेः लौकिकदुःखनिवर्तकत्वात् । तत्र साधनानीति । काञ्चीरूपे वैदिककर्मणि उपकरणानि । अङ्गदानीत्यादि। अत्र बहुवचनं चतुष्टयत्वस्मारणाय बाहुमध्ये तिष्टन्तीति कर्मत्वोपपादनाय इदमेव टिप्पण्यामितरयोरित्यादिना विवृतम् । समानयोगक्षेमत्वं कङ्कणानामपीति न पृथक् तदुक्ति । अङ्गदानां सात्विकत्वे