पृष्ठम्:श्रीसुबोधिनी.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
दशमस्कन्धसुबोधिनी टिप्पण्योः प्रकाशः।


दत्र लक्ष्मपदप्रयोग इत्यर्थः । कथं मुख्यत्वमित्याकांक्षायामाहुः । अस्येत्यादिभावइत्यन्तं अति मुख्यत्वे । अतएवेति मुख्यलक्षणत्वादेवतद्वत्इति त्रिब्रह्मवतः । गतिरितिमहत्वपरीक्षार्थगमनं तथेति मुख्यत्वं । तथाच यदि तत्र भगवति पुरुषोत्तमत्त्वं न स्यात्तदा महत्वपरीक्षार्था भृगोर्गतिस्तत्र न पर्यवस्येत यत एवमतः श्रीवत्सस्य ब्रह्मत्वान्मुख्यत्वमित्यर्थः । प्रकारान्तरेणापि भृगुपदस्य नानुचितत्वमित्याहुः । किश्चेत्यादिना । तथाच तज्जातो भृगुरपि विशिष्ट इति नानुचितत्वमित्यर्थः । इदं प्रकारान्तरेणाहुः । स्पर्शत्यादि । अनुचितत्वपरिहारायैवमुपपत्तित्रयेण भृगोरक्षरात्मकत्वं तेन श्रीवत्सस्याक्षरात्मकत्वं च समर्थितं सुबोधिन्यां अस्मिन् विशेषणे पूर्वोक्तमैश्वर्यनिरूपणं निगमयन्ति । ब्रह्मेत्यादि ब्रह्मणो अक्षरस्योक्तरीत्या निरूपितेन लक्षणत्वेनैव भगवतो क्षरप्रयोजकत्वरूपमैश्वयं निरूपितमित्यर्थः। अग्रिमविशेषणमवतारयन्ति । वीर्यमित्यादि स्वरूपसामर्थ्यं हि वीर्यं तदत्र मुक्तजीवं । स्वाधीनकरणलक्षणं । तन्निरूपयन् कण्ठाभरणतयाऽवस्थितं जीवस्वरूपं लक्षणान्तरत्वेनाहेत्यर्थः । अङ्गातरे अस्थापयित्वा यत्कौस्तुभस्य कण्ठे स्थापनं तत्तत्पर्यमाहुः । क्रियाशक्तरित्यादि। क्रियाशक्तिहस्तादिः। ज्ञानशक्तिः कण्ठदेशः पश्यन्त्यनन्तरमध्यमास्थानत्वेन ज्ञानप्रत्यासन्नत्वात् । अतः सोत्तमोति तथेत्यर्थः । तदेव टिप्पण्यामाहुः । सरस्वत्यादि । पीताम्बरमित्यत्र तथात्वहेतुभूतामिति । जीवत्वप्रयोजकभूतां नन्वम्बरस्य मायात्वे पीतत्वं नोपपद्यते । तस्या लोहितशुक्लकृष्णवर्णत्वेन पीतत्वस्य तत्रानुक्तत्वादित्यत आहुः । पीतत्वमित्यादि । रजस्तमोगुणजन्यं यत्सुवर्णं तत्सम्बधादित्यर्थः । तदुपपादयन्ति । अन्यथेत्यादि । न तथाचेदमागन्तुकरूपमित्यर्थः तत्रास्पृष्टं लिङ्गमानत्वेनाहुः व्यामोहकेत्यादि । तथाचवैरञ्चपञ्चममिति प्रथमस्कन्धवाक्याद्वैरजनकस्य सुवर्णस्य तथात्वेन तन्मूलभूता सालयविक्षेपात्मिकत्यर्थः । पीताम्बरमित्यनेन यशो निरूपितं ज्ञेयं प्रथमस्कन्धे सम्यत्केनरूपेण वर्णनयोग्यं गुणक्रियादिपौष्कल्यं यशः आधारोत्कर्षाधायकः सर्वजनाल्हादको विसर्पिगुणोपि यश इति च पृथ्वीवाक्यव्याख्याने तत्स्वरूपस्योक्तत्वात् तञ्च गुणपोकल्यमात्राऽऽभासे जीवानामित्यादिनोक्तम्।यादृशी सापि प्रदेशविशेषां वरिकैव ननु तं वशयितुं समर्थेति । सान्द्रेत्यत्र टिप्प-