द्विगुणपुरुषत्वं विवृण्वन्ति । पुरुषस्येत्यारभ्यालौकिकमित्यन्तम् ।
घातकाविति कारिकायोजना तु चतुर्यु भुजेषु द्वौ भुजौ घातको
रक्षको विरोधेप्युक्तौ च पुनः अतिसङ्कटेऽपि तथोक्तौ किञ्च
चतुर्भुजपदेन भुजतया वेदोक्तं द्विविधज्ञानमुक्तं तथा भगवतो
भक्तिरुक्तेति रूपामङ्गीकृत्य तां विवृण्वन्ति । घातकावित्यारभ्य
रूपावेत्यन्तम् ।तत्रैव तद्वोध्यम् । मूले न सकृदुश्चारितेष्वेतेषु
पदेषूक्ता अनेकेऽर्थाखले कपोतिकान्यायेनापतन्तो गतस्तमोर्क इति
वद्बोधव्यवैशिष्ट्येनतं तं प्रत्येकैकशः स्फुरन्तोऽपि भगवत्कृपावलोकितं
सर्वज्ञं प्रतियुगपत्क्रमेण वा यथाधिकारं विषयीभवन्तीति न कोऽपि शङ्कालेशः
एवमपि बोध्यम् । अग्रिमपदे वैराग्यं कथमुच्यत इत्याकाङ्क्षायां तद्विवृण्वन्ति ।
वैराग्यमित्यादि । अर्थस्तु स्पष्टः उक्तरीत्येति । दक्षिणहस्तयोरुपरिशङ्खो
नीचैः पद्मं वामयोरुपरिगदा नीचैश्चक्रम् । अनया रीत्या धारयन्मधुसूदनः
पुराणान्तरे तथाप्रसिद्धत्वात् । मन्दारमधुसूदनादौ तथा दर्शनाञ्चेति भाति ।
एवं माधवरूपेऽपि बिन्दुमाधवादौ तथा दर्शनात् नारायणस्वरूपेऽपि
व्यङ्कटेशे तथा दर्शनाद्भाति । अत्र पूर्वं चतुर्भुजपदविवरणे
चतुर्विधकार्यकारणार्थमवतारकथनेन चतुव्यहत्वसिद्धावपि यदत्र त्रिरूपत्वेन
विवरण्म् तत् ।शङ्खगदाद्युदायुधमितयत्र क्रमेण शङ्खस्य गदायाः
आदिपदोक्तस्य च उत्पदेनोच्चैः स्थापनबोधनादङ्गीकृतमिति प्रतिभाति ।
त्रिव्यूहत्वं च त्रिव्यूस्हय्कैव बहुशः करणादुक्तं ज्ञेयम् । वासुदेवकार्यस्य
गीतोपदेशभीष्ममुक्त्यादौ क्वचिदेवकरणादितिभाति इन्द्रियेत्यादिपक्षे
व्युत्पादयितुमवतायन्ति । शङ्खेत्यादि । पद्मस्य देहरूपता ताञ्चोपपादयन्ति ।
प्रकृते इत्यादि । तथेति च पद्मस्य देहरूपत्वमायुधरूपत्वं चेत्यर्थः ।
तेजोरूपमिति । अन्तःकरणस्य सात्विकाहङ्कारकार्यत्वात्प्रकाशकत्वेन
तेजोरूपम् । पक्षान्तरमवतारयति । स्वयमित्यादि । इदं च अपान्तत्वं
दरमित्यादेरैव प्रपञ्चरूपं ज्ञेयं शेषं स्फुटम् । श्रीवत्सलक्ष्ममित्यत्र ।
अत्रत्यन्वयपूर्वात्सामलोम्रः । इत्यत्राजिति योगविभागादच् पद्मनाभ
इतिवत् विशेषणान्तरेष्वपि व्यावर्त्तकस्य सत्वात्रैच यल्लमत्वमुक्तम् ।
तत्तात्पर्यं श्रीर्वत्सेत्यादिना बदन्तीत्याशयेन टिप्पण्यां तद्विवृण्वंति ।
र्वत्स्रेत्यादिना अत्रेति अस्मिन्विशेषणे । स्थानासाधारणधर्ममिति ।
स्थानरूपमसाधारणधर्मम् । तथाचास्य मुख्यत्वा-
पृष्ठम्:श्रीसुबोधिनी.pdf/२६८
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
जन्मप्रकरणम् । १ । अध्यायः । ३ ।