पृष्ठम्:श्रीसुबोधिनी.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।


त्यादि । यादृशस्तच्छब्देन परा मृष्टस्तस्य सामान्यतः स्वरूपमेतेनोक्तम् । पुरुषः स परः पार्थ भक्त्या लभ्यस्वनन्यया यस्यांतस्थानि भूतानि येन सर्वमिदं ततमिति लक्षणान्तरसंग्रहायाहुः । आश्रयेत्यादि । तथाच गीतोक्तलक्षणत्रयवानत्र परामृश्यत इति बोधितम् । एतेन सर्वनियामकत्वादिरूपमैश्वर्यं चोक्तम् । मतान्तरमाहुः । सृष्टिरूप इति केचिदिति । अत्र युक्त्यलिखनादुक्तवाक्यविरोधाच्च तदसङ्गतमिति बोधितम् । टिप्पण्याम् । तमद्भुतमिति पदद्वयव्याख्यानयोः परस्परं विरोधं परिहरन्ति । यद्यपीत्यादि । तथाच अन्य अन्यदेवतद्विदितादथो अविदिति तादपीति श्रुत्या विदिताविदितपरत्वस्यापि श्रावणादस्यैवार्थस्य सिद्धेर्न विरोध इत्यर्थः । सुबोधिन्यां इदमिति । लोकवेदप्रसिद्धत्वे सत्येष्वद्भुतत्वम् । एवमत्रतात्पर्यवृत्या पदद्वयं व्याख्यातम् । अतः परं योगेनाग्रिमपदं व्याकुर्वन्ति बाल इत्यादि । अद्भुतवालकपदयोः समाभिव्याहारेण सूचितमर्थमाहुः। अद्भुतश्चेत्यादि । पञ्चाग्नीत्यादि। अत्र आपः पुरुष वचसो भवन्तीति श्रुतेस्तद्विद्यासाधितरूपस्याम्बुजत्वं बोध्यम् । प्राकृतैरिति । अम्बुजैरित्यर्थः । चतुर्भुजमित्यस्याभासे क्रियाशक्तिमित्यादि । ज्ञानशक्तिवदद्भुतां क्रियाजनिकां शक्ति निरूपयन् चतुर्विधमपि ज्ञातमाह । क्रियायाः ज्ञानमूलकत्वात्तच्छक्तिनिरूपणे छिद्रतरत्ववत्तन्मूलभूतं झानमर्थबलादाहेत्यर्थः । किं तञ्चतुर्विधमित्याकाङ्क्षायां टिप्पण्यां तद्विवृण्वन्ति । प्रमाणेत्यादि । निरूपयतीति । अर्थबलान्निरूपयति । ज्ञाननिरूपणप्रयोजनमाहुः । तेनेत्यादि । चतुर्विधेत्यादेस्तात्पर्यमाहुः । चतुर्विधेत्यादि । तेषामिति भूतानि वेत्यस्य तात्पर्यमाहुः । भगवद्भुजेत्यादि । तस्यैवार्थान्तरमाहुः । जरेत्यादि । उक्तरूपाणीति । आधिदैविकरूपाणि । अत्र चतुःशब्देन नानाविधानां चतुःसंख्यकानां यः सुबोधिन्यां संग्रहस्तत्र बीजं तु जातेष्ट्यधिकरणे सिद्धं संख्यायाः प्रयोजनबत्वमेव ज्ञेयम् । तत्र हि वैश्वानरद्वादशकपाले अष्टादिसंख्यानां विद्यमानत्वात्ताभिस्तत्समानाक्षरछन्दः प्रभृतीणां तत्कार्याणां त्वविरोधदर्शनात् । एवमत्रापि चतुर्णां भुजानां दर्शनेनेदं सर्व सूच्यते अन्यथा गोपालतापनीये द्विभुजमिति श्रावणादत्रापि तथैव दर्शयेदिति । दिककालावेति तु इन्द्रादयो बाहव आहु देवाः इति द्वितीय स्कन्धवाक्यात् स्फुटमतो न व्याख्यातम् ।