पृष्ठम्:श्रीसुबोधिनी.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
जन्मप्रकरणम्अध्यायः


वा । आगते तु सूर्य मेघाद्यभावे च सान्निध्यमात्रेण व्यवहारः कर्तुं शक्यते तथा लौकिकवाङ्मनोभिर्नशक्यते व्यहर्तुं इश्वरसन्निधाने तु शक्यते इति द्वयमाह श्रुतिः । कुत एतदवगम्यते । तत्राह । अवैयर्थ्यात् अन्यथा शास्त्रं व्यर्थं स्यादित्येवं प्रतिपादनात् ॥ ८॥

 तमद्भुतमित्यत्र । वीर्यनिरूपणार्थमिति । सामर्थ्यनिरूपणार्थम् । ऐश्वर्यस्याष्टविधत्वात्तत्राष्टौ श्लोका युक्ताः निरूपणीये वीर्ये कुतोद्वौ श्लोकौ कुतश्च प्रथमे श्लोके दशपदानि द्वितीयश्लोके च द्वेभगवततोविशेषणीभूते इति शेषं तेन पञ्चपदस्यत्वेऽपि न दोषः इत्याकाङ्क्ष्यासार्द्ध चतुष्टयकारिकाभिस्तत्तात्पर्यं वदन्तीत्याशयेन टिप्पण्यां तद्व्याकुर्वन्ति । विशेषणेत्यादि अयमिति । प्रथमचरणोक्तः । हेतुरिति । उक्तदानादौ हेतुभूतम् । द्वितीयमिति शेषः । समुदिततत्तात्पर्यमिति। समुदितं यच्छ्रोकद्वयं तत्तात्पर्यमित्यर्थ्यः । अग्रे इति । अग्रिमकारिकासु सर्वेषामिति पदं संकुचितवृत्तिकमित्याशयेनाहुः । भक्तानामित्यादि । अग्रे तु स्फुटत्वान्न व्ख्यातम् । परं तत्राद्धाभ्यां द्विधाद्वादशविधत्वमुच्यन्ते इति बोध्यम् ।सर्वप्रकाशकश्चैवेत्यनेन पुनरन्याविधोच्यत इत्याशयेनाहुः । सर्वेत्यादि । कालात्मेत्यनेन ततोप्यन्योच्यते इत्याशयेनाहुः । लीलाया इत्यादि । इन्द्रियनायक इत्यनेन ततोप्यन्योच्यते इत्याहुः । लौकिकेत्यादि । आत्मेतिकारिकां व्याकुर्वन्ति । आत्मपदेनेत्यादि । नन्वत्र श्लोकद्धये तमित्यस्येक्षतिक्रियाकर्मत्वेन मुख्यतयाऽन्वयदर्शनात् द्वादशानामपि विशेषणत्वाङ्गीकारो न युक्त इतिचेग्न तमित्यस्याञ्चैचं विशेष्यत्वेऽपि पूर्वश्लोके यःप्रादुरासीत्यनोनोक्तस्तत्परामर्शितयेतराव्यावर्तकत्वेन विशेषणत्वानपायात् । एव चापेक्षाभेदेन तमित्यस्योभयरूपत्वात् विशेषणानां द्वादशत्वं युक्तमेवेति जानीहि । एवं कारिकाणां तात्पर्यमुक्त्या एवं विधाकथनस्य प्रयोजनं बीजञ्चाहुः । एतेनेति । अष्टधा द्वादशविधत्वनिरूपणेन इति फलितमिति । इति हेतोः सर्वरूपतया अत्यलौकिकभगवत्सामर्थ्यरूपं वीर्यमेव फलितम् । सुबोधिन्याम् । तमित्यस्याभासे तञ्चेति । द्वादशसुविशेषणेषु विवृत्तौ । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वर इति गीतायां श्लोकद्वये सन्तराविष्य सर्वाधारकत्वेन क्षराक्षरातीतत्वेन च ये उच्यते सोऽत्र तच्छ्ब्धेन परामृष्ट इत्याशयेनाहुः । तमि-