पृष्ठम्:श्रीसुबोधिनी.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।


थनात्तद्वाराऽत्रापि तदागमनेन वासुदेवाविर्भावादस्ति सर्वांशेनाविर्भाव इत्यर्थः । ननूभयत्र वासुदेवाविर्भावस्य किम्प्रयोजनमत आहु। न केवलमित्यादि । इदमिति । वासुदेवाख्यम् । तथाच पुरुषोत्तमस्याक्षरएवाविर्भावो नतु गुणसंसर्ग इति तदभावार्थमात्रोपि वासुदेवाविर्भावाङ्गीकरणमित्यर्थः । सत्वगुणाभिमानिव्युदासायाहुः। विष्णुव्यापक इत्यादि । सर्वान्तर इति । अनेन स्वतोऽनाविर्भावे उपप- त्तिरुक्ता । सर्वान्तर्यामिव्युदासश्च कृतः। स्वत आविर्भावे स्वभावहानिप्रसङ्गात् । अन्तर्यामिप्रतिशरीरं भिन्नत्वाञ्चेति । दृष्टान्तसिद्धमर्थं व्याकुर्वन्ति । सर्वेत्यादि । तथाच प्राचीदृष्टान्तेन श्रीदेवक्या आविर्भावप्रयोजकत्वमात्रं नतु मातृवज्जननीत्वं द्योतितम् । इन्दुपदेन च परमैश्वर्ययोगात्पूर्णत्वं द्योतितम् । तर्हि दृष्टान्ते कथं तत्सिद्धिरित्यत आहुः स इत्यादि । स इन्दु प्राच्यां दिशि प्रथमं पूर्णमास्यां षोडशकलात्वदशायां पूर्वं पूर्ण एव दृश्यते । चन्द्रमसः खण्डास्तुतिथ्यन्तरे आकाशमध्ये तत्प्रान्ते च दृश्यन्ते । तथाच प्राचीपदेन्दुपदयोः समभिव्याहारात् । दृष्टान्तेऽपि तत्सिद्धिरित्यर्थः । नन्वेवं दृष्टान्तेनैव पूर्णत्वसिद्धौ पुष्कलपदस्य किम्प्रयोजनामत्याकाङ्क्षायामाहुः । उच्चैरित्यादि । तथाच कृष्णद्वितीयादौ उच्चैः खण्डस्यापि प्राच्यां दशनात्तद्यावृत्यर्थं पुष्कलपदमिति तत्समभिव्याहतदृष्टान्तादेव पूर्णत्वसिद्धिरित्यर्थः । अत्र दृष्टान्तबोधकयोयथेव पदयोः सत्वात् । पुष्कलपदस्यार्थान्तरमभिप्रेत्येतत् द्विधा व्याकुर्वन्ति । पुष्कलशब्देनेत्यादि च । अत्रेति । एवं व्याख्याने । एवं सतीति । दृष्टान्तद्वयेऽङ्गीकृते सति इति तथेत्यर्थ इति । एवं बोधनार्थं दृष्टान्तद्वयमुक्तमित्यर्थः सिद्धमाहुः । अत इत्यादि । एतमर्थमुपपत्त्या दृढी कुर्वन्ति । अत एवेत्यादि प्रादुर्भावे आपतितं श्रुतिविरोधं कारिकया परिहरन्ति । दासीनामित्यादि । अर्थस्तु दास्यो वक्ष्यमाणा अङ्गोकार्याः तासां सर्वपुरुषार्थरक्षानिमित्तां तादृशं स्वसमानाकारं वासुदेवमत्युत्कटं भक्तदु:खं वा निमित्तीकृत्य स्वाविर्भावे प्रयोजकं कृत्वा मम स्वामीपुरुषोत्तमः प्रादुर्भूत इति । शेषं तु टिप्पण्यां व्याख्यातं वाचीत्यादिना । अयं टिप्पण्योक्क्तोर्थः। साधनाध्यायद्वितीयपादे अरूपवदधिकरणस्याद्वितीये । प्रकाशवञ्चावैयर्थ्यादिति सूत्रे स्फुटः । तर्हि यथा सौरः प्रकाशव्यवहार्यः । अव्यवहार्यश्च न हि स्वतः सम्पादयितुं शक्यते स्थापयतुं