दासाय जायमानेऽजनइत्युक्तम् । प्रादुर्भावस्य निमितत्वाय च
जायमाने जनार्द्दन इत्युक्तमिति भावः । ननु नेदं युक्तम् ।
देवक्यामिति पद्येनैव चारितार्थ्यादित्याशङ्कायामस्याप्याशय
सूक्ष्मेक्षिकया आह्वः । एवं संदर्भे इत्यादि । त्रयमपीत्यपि
शब्दः प्रासङ्गिकत्वं सूचयति । पुरुषोत्तमस्यैव प्रकरणित्वात् ।
तत्स्पष्टी कुर्वन्ति । सर्वेत्यादि । तत्र जायमानेऽजनइत्यस्य
गुणाविर्भावोक्तिमध्ये निरूपणाद्धर्मरक्षकता स्पष्टेति
तेनानिरुद्धावतारो जायमाने जनार्द्दन इत्यविद्यारूपा
ज्ञाननिवर्तकत्वेन सङ्कर्षणावतारो देवक्यामित्यनेन च प्रद्युम्नः
पित्रोः सुखदानात् । विष्णुरूपिण्यामिति वक्ष्यमाणाञ्च । यः
पुनर्वभूव प्राकृतः शिशुरित्यनेन उक्तः स तु वासुदेव नन्दगृहे
प्रादुर्भावात् पूर्वमत्र जात इति प्रागयं वसुदेवस्य
कचिजातस्तवात्मज इति गर्गवाक्यादवसीयते । अतो हेतोः
सर्वरूपेणाप्याविर्भूतो भगवानिति एतत् तृतीया-ध्यायरूपे
संदर्भउक्तमित्यर्थः । ननु तादृशगुणाधारादौ कालस्य
निमित्तत्वाङ्गीकृते को वा दोष इत्यपेक्षायामाहुः निमित्तत्वमित्यादि ।
एकमिति । कालात्मकं निरूपितमिति । वारद्वयं
जायमानेत्यादिकथनेन निरूपितमित्यर्थः । नचास्त्वेवं तथापि
सकृदुच्चारोतैरजनादिपदैः कथमर्थद्वयबोध इति शङ्क्यम् ।
सकृदुच्चारितादप्यजनादिशब्दादर्थमर्यादया
छिद्रेतरत्ववदवतारत्रयबोधस्यापि सुखेन सम्भवात् । ननु
पूर्वाध्याये पुरुषोत्तमप्रादुर्भावस्य नन्दगृहे समार्थितत्वादत्र नन्दगृहे
वासुदेवपदस्य व्यूहसाधारणस्य कथने किम्प्रयोजनमिति चेत् उच्यते
वासुदेवस्य व्यूहस्य नान्तरीयकत्वज्ञापनायेति जानीहि । वक्ष्यन्ति च
पञ्चमाध्याये । वासुदेवोत्रैवाविर्भूत इति । सिद्धान्ते इति ।
द्वितीयस्कन्धविमर्शाध्याये भूमेः सुरेतरेत्यस्य व्याख्याने चोक्तम् ।
एकमेव चरित्रं मोक्षभक्तीनिरूपयतीति । तेन
पुरुषोत्तमवासुदेवयोराधिदैविकाध्यात्मिकवत्तत्तत्कार्यकरणादेव व्यपदेशभेद
इत्यभिप्रेत्यैव शुद्धसत्वे आविर्भूतः पुरुषोत्तम एव वासुदेव इति ।
वसति जगदस्मिन्निति वासुदेवः क्रीडावान सचासौ देवश्च । सर्वतः
पाणिपादान्तमिति वाक्योक्तधर्मवानिति च द्वेधापि साम्प्रदायिकानां
व्याख्यानं सङ्गच्छते । देवक्यामित्यत्र ननु नन्दगृहे वासुदेवश्चेतह्यत्र
नेति वक्तव्यं तथा सति कथं सर्वांशेन प्रादुर्भाव त्याकाङ्क्षायामाहुः ।
सम्पूर्ण इत्यादि । तथाच निबन्धे प्रथमे वासुदेवोऽभूदितिक-
पृष्ठम्:श्रीसुबोधिनी.pdf/२६४
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
जन्मप्रकरणम् । १ । अध्यायः ३ । ३ ।