पृष्ठम्:श्रीसुबोधिनी.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।


समये मनः पदमिन्द्रियाणामप्युपलक्षणम् ॥ ५॥६॥

 मुमुचुरित्यत्र । मुनीनां देवानां भगवत्प्राकट्यज्ञाने हेतुमाहुः शब्दबला इत्यादि । शब्दस्य श्रुतेरर्थस्य भगवतश्च बलं येषां तेन तथा अतो ज्ञानात्तथाकृतवन्त इत्यर्थः ॥ ७॥

 निशोथ इत्यत्र । रात्रेस्तन्मूहूर्त्तस्यचेति निशीथशब्दस्यार्द्धरात्रवाचकत्वात्तेनैवार्थबलात् रात्रेपि प्राप्तेस्तथेत्यर्थः । सिंहार्के निशीथ इदानीपट्चत्वारिंशत्सप्तचत्वारिशद्धटिकाद्वयात्मको भवतीति तद्व्यावृत्यर्थं विवक्षितं प्रादुर्भावसमयं निश्चेतुमाहुः । पञ्चचत्वारिंशत्तत्रैवमुक्तं तत्रायमर्थः द्वापरस्य पञ्चविंशाधिकशरच्छतावशेषे भगवत्याप्रादुर्भाव इत्येकादशस्कन्धीयात् शरच्छतं व्यतीयाय पञ्चविंशाधिकं विभो इति ब्रह्मवाक्यात्रिश्चयिते । तत्र च गणितविचारे स्कुटोऽर्कः ४ । १९० । १ गतिः ५८।८। अयनाशाः । २४ । ३२ । २० मधुयुर्यां पलप्रभावः । ६।५। चरखण्डानि ६०।४८ । २० चरपलानि ३२ दिनमानं ३१ । ४ रात्रिमानं २८ । ५६ रात्रर्द्दहं १४ निशीथः ४५। ३२ एवं सति तत्राऽषाढोधि कोभ्युपेयः उक्तरीत्या स्पटेकै पिसति ४।१९०।१ एतादृशस्य सूर्यस्य तदैव सिद्धेरिति । अतएतावत् भवति । पट्चत्वारिंशत् घटिकामिति । ईदृशस्तु निशीथो विषुवाद्दिने एकस्मिन् भवति पञ्चमस्कन्धर्यात् । यदा मेपतुलयो वर्त्तते तदाऽहोरात्राणि समानि भवन्तीतिवाक्यात् ज्योतिशास्त्राच्य निश्चीयते । तदग्रे तु प्रत्यहं पलद्वयं रात्रोर्दिनस्य च वृद्धिहासौ एवं सति यत्तत्राष्टम्याः प्रान्तभागइति । तत्र चन्द्रप्रकाशस्तेभ्यो द्वात्रिंशत्पलेभ्यः पूर्व भवति चन्द्रप्रकाशात् क्षितिजलंयोगे तमसो निवृत्तेः । तदेवाभिप्रेत्य मूले तमउद्भूतइत्युक्तम् । भगवत्प्राकट्यं तु तावत्पलोत्तरं निशीथारम्भसमये चन्द्रोदयलमकाले तदेवाग्रिमश्लोके प्राच्यां दिशोन्दुरिवेति दृष्टान्तन सूचयिष्यते । अतो द्वाविंशत्पलान्यनादृत्य यत्पञ्चचत्वारिंशत्यादिकथनं तत्प्रकाशन्यायेन दोपनिवृत्तिबोधनार्थमिति न कोपि विरोधः। ननु जायमानेऽजन इत्यनेनैव गुणनिरूपणसिद्धिरितिजायमाने जनार्द्दन इत्यस्य किम्प्रयोजनामत्याकाहायामाहुः भगवजननस्येत्यारभ्य हेतुरुक्तइत्यन्तम् । तथाच कालः पूर्वमुपक्रान्तः सर्वत्र च हेतुत्वेन प्रसिद्ध इति प्रकृतेऽपि स एव निमित्तत्वेन सम्भाव्यते इति तदन्यु-