पृष्ठम्:श्रीसुबोधिनी.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
जन्मप्रकरणम्अध्यायः

बोधकः । एवकारस्तस्याप्याधिदैविकत्वज्ञापकः एवं भूतान्यपि ज्ञेयानि । तत्रत्या ये विदुरिति त्रिविधदेशोद्भवेषु ये भगवत्प्राकट्यं विदुरित्यर्थः । ज्ञापनार्थमिति अवतरतो मूलरूपत्वज्ञापनार्थमित्यर्थः। कारिकोक्तमर्थं विषदीकर्तुमाहुः । एवमित्यादि भयवर्णनमित्यन्तं । तत्र स्वीकरणमुच्यत इत्यन्तेन सङ्गतिबोधनायाध्यायार्थउक्तः । अतो वर्णनतात्पर्यमाहुः । अत इत्यादि । ततो जननस्वरूपबोधनार्थं सर्वगुणप्राकट्यतात्पर्यमाहुः । तस्येत्यादि । ततः स्तोत्रयोस्तात्पर्यमाहुः। जनकयोरित्यादि । तादृशमेव जनितमिति तयोर्बुद्धिः स्यादिति । पूर्वोक्तरूपमेव तयोरुत्पन्नमिति सर्वेषां बुद्धिः स्यात् । ततः स्वान्तरगतस्वरूपकथनस्थ तदाहुः । रूपस्येत्यादि । गमनस्य च स्फुटं । ननु र्ऊपेणैव सकलकार्यसिद्धेः किंरूपान्तरग्रहणेनेत्यत आहुः । रूपान्तरेत्यादि । तत्वात्मत्वेन ज्ञानाभावादपि सर्वमुक्त्यभावसिद्धिरिति नेदं रूपान्तरग्रहणप्रयोजनमित्यतो हेत्वन्तरमाहुः। लीलाया इत्यादि । तर्हि भयवर्णनं कुत्रोपयुज्यत इत्यत आहुः। अलोकिकमित्यादि । अलौकिकं महात्म्यज्ञानं लोकात् स्नेहात् बालरूपात् कंसाद्वेत्यर्थः । तद्बुध्यनुवादोयं । अथ मूलं व्याकुर्वन्ति । प्रथममित्यादि । प्रादुर्भूतइति । प्रादुरासीदित्यस्यार्थोयं । एवमेवजातपदमपि बोध्यम् । यद्यपि दुरान्वय एवं भवति तथाप्यध्याहारापेक्षया लघीयस्त्वादेवमुच्यते ॥१॥

 दिशः प्रसेदुरित्यत्र देवताप्रसाद इति। कर्णौ दिश इत्यादि वाक्यादिशः श्रोत्रेन्द्रियदेवताः ताः प्रसन्ना सर्वमेव भगवन्सम्बन्धिश्रोष्यंतीति तत्प्रसादः सर्वसाधक इत्यर्थः । तद्विवृण्वन्ति । अत इत्यादि । निर्मलेत्यत्र । निर्मला उड्डुगणा उदये यत्रेति गडादि समासोत्र बोध्यः । समासान्तरमपि बोधयन्ति। उदयो दर्शनामति अस्मिन्पक्षे निर्मलानामुडुगणानामुदयो यत्रेति समासः । महीत्यत्र । विवाहति । सर्वत्तवो विवाहस्येत्यापस्तम्बस्मृतेस्तथेत्यर्थः ॥ २॥

 नद्यइत्यत्र । एकोनविंशतिभेदा इति । यद्यपि तैत्तरीयसंहितायां कूपाभ्यः स्वाहेत्यादिना सर्वाभ्यः स्वाहेत्यन्तेन विंशतिभेदा अपामुक्तास्तथापि सर्वाभ्य इत्यन्तिमस्य पूर्वोक्तसर्वग्राहकत्वेनातिरिक्तत्वाभावमभिप्रेत्येकोनविंशति भेदा इति बोध्यम् । कालनियन्तुः इति । सङ्कर्षणस्य तथाच भगवद्वशोः यः कालनियन्ता तस्मादित्यर्थः ॥३॥४॥

 मनांसीत्यत्र । भौतिकगुणसमय इति । तामसाहङ्कारकार्यगुण-