पृष्ठम्:श्रीसुबोधिनी.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
 


 तृतीयाध्यायं व्याख्यातुं सङ्गतिमवसररूपां सूचयन्तोर्थविशेषमाहुः । जननमित्यादि अत्र षड्विधो भगवानित्युक्त्या दिष्ट्या हरेस्या इत्यत्र धर्मरूपेणाविर्भावः कर्माणि आनन्दरूपेणाविर्भावो जन्मानीति यः श्रौतसिद्धान्त उक्तः सस्स्मारितो ज्ञेयः। अत्र षडार्थानां निरूप्यत्वेऽध्यायार्थाननुगम इत्यत आहुः । रूपान्तरेत्यादि। तर्हि षट्निरूपणस्य किम्प्रयोजनमत आहुः । प्रतीयमान इत्यादि । रूपान्तरस्वीकारात्पूर्वं यः प्रतीयमानः स भगवान् षट्गुणैश्वर्यसम्पन्न इतिज्ञापयितुं रूपान्तरस्वीकारीययोगित्वेन तथोच्यते तेन रूपान्तरस्वीकरणमेवाध्यायार्थ इत्यर्थः । जननस्य सार्दाष्टभिर्निरूपणे हेतुमाहुः ऐश्वर्यमित्यादि । अर्द्ध मात्रा हरौ परेति अर्द्धमात्रात्मकः कृष्णः । इति तापनीयश्रुतेः । अर्द्धचतुर्थमात्रेणोमित्येकेनैवाक्षरेण परं पुरुषमभिध्यायितेति प्रश्नश्रुतेश्च प्रणवस्य या चतुर्थ्यर्द्धमात्रा सा हरौ प्रकटे परा परत्वबोधिका अर्द्धमात्राचात्र गर्भवृद्ध्यादेस्तुल्यत्वेऽपि प्रादुर्भावप्रकारेणालोकविलक्षणेन स्वरूपेण च प्रकटीकृतेति ज्ञापनाय तथेत्यर्थः। टिप्पण्यां ननु जनने वर्णनीय कालगुणवर्णनस्य किम्प्रयोजनामित्याकाङ्कायां अधिकारिणीत्यर्द्धं विवृण्वन्ति । दक्षिणेत्यादि । नन्वाधिदैविककालप्रादुर्भावे किमानमित्यत आहुः । अतएवेत्यादि । तथोक्तमिति सर्वगुणोपेतत्वमुक्तं । ननु प्रक्षालनपङ्कन्यायेन दक्षिणायनं विहायोत्तरायणएव तद्भगवता कुतो नकृतमित्यत आहुः । यद्यपीत्यादि । अत्रापिगमकमाहुः । अतएवेत्यादि । ननु भवत्वेवं तथापि भगवदात्मत्वे किंगमकमत आहुः । असङ्कोचेत्यादि । सर्वशब्देनेति सर्वगुणोपेतशब्दैकदेशेन तेन सुबोधिन्यां मूले कालस्य सर्वगुणोपेतत्वादिकथनेन सर्वथा भगवत्तुल्यत्वमायातीति तद्वारणावाहुः । खंडश इत्यादि । भगवद्गुणैकदेशतस्ते गुणा अवयवशः कालावयवैः कृत्वा सर्वेषां गृहरक्षतारादीनां यत्फलं तस्य बोधका उद्बोधकाः । तथाच तावन्मात्रकार्यकर्तृत्वात्कालस्य न सर्वथा भगवत्तुल्यत्वामित्यर्थः । गुणप्राकट्यं देशादिष्वतिदिशन्ति । मूलइत्यादिसार्द्धद्वयेन । देशोपि त्रिविध इति उपर्यधः परित इति भूर्भुवस्वरिति वाचैवेति चकारः सर्वगुणप्राकट्य-