पृष्ठम्:श्रीसुबोधिनी.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
जन्मप्रकरणम्अध्यायः


पेण प्रकटस्य आविर्भावो जन्मानीति वैदिकसिद्धान्तस्य भगवच्छास्त्रसिद्धान्तस्य सामानाधिकरण्यादिति बोध्यम् ॥ ४० ॥


 इतीत्यत्र । मूले अनिदं यथेत्येकं पदं समासस्तु इदश्च तद्यथाच इदं यथा अनिदं यथेत्येवं तत्र बोध्यः । एकत्रिंशति स्वर्ग इति च नृसिंहपुराणे सिद्धाः । एवं स्वतः स्वर्गपक्षोऽपि पुराणान्तरादवगन्तव्यः ॥४१॥ ।


इतिश्रीमदल्लभचरणकतानश्रीयदुपतितनुजपीताम्बरविरचिते

दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशे

द्वितीयाध्यायविवरणम् ॥