गुणाश्रयं कृतवान्। इदमेव द्वितीयस्कन्धे सवाच्यवाचकतयेति श्लोके
यतो वस्तुतः अकर्मकः सर्वकर्मरहितः सर्वेषां नियामकश्च एतादृशोपि
सर्वानुत्पादयितुं त्रिगुणात्मकं अव्यक्तं च रूपं करोतीति विवृतम् ।
अनिरूपणे हेतुः साक्षीत्यादि । कर्माध्यक्ष इति कर्माध्यक्षः
सर्वभूताधिवासः साक्षीचेतो केवलो निगुर्णश्च इतिश्रुतेः आनंदरूपेण
प्रकटस्य च जन्मानीति एतदेव ब्रह्मांडपुराणेप्युक्तं ।
स्त्रीपुंमलानुषङ्गात्मादेहो नास्य विजायते किन्तु निर्दोषचैतन्यसुखनित्यां
स्वकां तनुं प्रकाशयति सैवेयं जनिर्विष्णोर्नचापरेति । एवमेव यज्ञो वै
विष्णुरिति श्रुतेः कर्माण्यपि ज्ञातव्यानि । ब्रह्मसूत्रभाअष्येऽपि। ज्ञापनार्थ
प्रमाणानि सन्निकर्षादिमार्गतः सर्वथा विषये वाच्येऽव्यवहार्ये कुतः
प्रमेत्याशङ्क्य इक्षत्यधिकरणे चतुःसूत्रे इदमेव प्रतिपादितम् । स
आत्मान स्वयमकुरुतेत्यादिश्रुत्या चेति बोध्यं शास्त्रयोनित्वव्याख्यानेऽपि
मतान्तरवह्जन्मादीनां न विकारत्वं किन्त्वाविर्भावतिरोभावावेव तथोत्तरात्र
वक्ष्यते तदन्यनत्वाधिकरणइत्युक्तं । तस्मिनधिकरणे च चत्वाच्चावरस्येति
सूत्रे प्रपञ्चस्य सत्वात्रैकालिकत्वाब्रह्मत्वम् । सदेव सौम्येदमग्रआसीत् ।
यदिदं किञ्च तत्सत्यमित्याचक्षत इतिश्रुतेरित्युक्तं । अत्र प्रपञ्चस्यापि
यत्राविर्भावतिरोभावौ तत्र पुरुषोत्तमनामरूपयोस्तथात्वे किंवक्तव्यमिति
सिध्यति । इमामिति श्रुतार्थापत्तिरूपाम् ॥३५॥३६॥
दिष्ट्याहरेस्या इत्यत्र । भगवतः प्रमाणत्वं कथमित्याकांक्षायामाहुः । भगवदित्यादि । भिद्यते हदयग्रंथिरितिश्रुतौ भगवद्दर्शने सर्वसंशयनिवृत्तेरपि फलत्वेनोक्तत्वाद्भगवत्साक्षात्कारः प्रमाणं श्रुतौ तस्मिन् दृढ इत्युक्तत्वेन साक्षात्कृते भगवत्येवोक्तफलस्य पर्यवसानात् । जीवन्नेव प्राणन्नेव प्राणो भवतीति वदा[१]चरणभञ्जनेन प्रमाणकार्यं कुर्वन् साक्षात्कृतो भगवानेव वा प्रमाणमित्यर्थः । अत्र द्वितीयपक्षस्य मुख्यत्वेऽपि द्रक्षाम इति कथनेन भगवत इदानीमगोचरत्वाद्वितीयपक्षे जन्मना सूच्यते मूलेन पदकशब्द इव सूत्रं प्रकृतितावित्यनेन कृतप्रत्यये सिद्धः त्रयमर्थं बोधयन्ति द्विधा पूर्वमाहुः। भूमिः पदमित्यादि। पदं छायामित्यादि च । देवपादाः भूमिं न स्पृशन्ति छायां च न जनयन्ति । तदत्र देवदेवपदे जातमिति विस्मयादभिनन्दनम् । तृतीयमाहुः । पुरुषपदमित्यादि । त्रिलोकीकल्पनायां भूः पुरुषस्य पदम् । अ-
१ शक्तिविरुद्धाचरणनिवर्तनेन ।
- ↑ १