त्यादि स्वत इति। प्राकृतगुणतया साधन इति आविर्भावसाधने केन
प्रकारान्तरेणाविर्भावइत्यपेक्षायां तं प्रकारमाहुः तत्रेत्यादि ।
कारणप्रकाशमाक्षिपतीति कारणं प्रवर्तकः सचेदर्थः प्रकाशयुक्तो
न स्यात्तस्मिन्नर्थ इन्द्रियं न प्रेरयेत् । अतः प्रेरणादाक्षिपति । तत्र
आक्षेपे एवमाविर्भावोपपादेन स्वरूपसत्ववैयर्थं शङ्किते
तत्पार्थक्यमुपपादयितुं मूलं व्याकुर्वन्ति । गुणानामित्यादि । तथाच
इन्द्रियप्रेरकाभिमानीचतत्तदर्थप्रकाशवान् । तत्रतत्रेन्द्रियप्रेरकत्वात्
यन्नैवं तन्नैवमित्यनुमानेनेन्द्रियप्रवर्तकस्य प्रकाशेऽनुमितेऽपि तेन
तत्सत्तामात्रं सिध्यति नतु तत्स्वरूपं प्रकाशते । यदि तत्प्रकाशेत
तदाऽयं भगवानयमहमित्येवं ज्ञानं स्यात् तत्तु न जाग्रते । तत्र
हेतुः सहीत्यादि । ननु स्वरूपसत्तादिनैव स्वत
एवावोर्भावोस्त्वितिचेत्तत्राहुः । नचेत्यादि । स्वरूपसत्वमिति
स्वरूपलत्ता.। प्रकृत इति पूर्वोक्तप्रकारकपरोक्षानुभवे। पूर्वमिति ।
पूर्वार्द्धव्याख्याने । इदमाक्षिपन्ति । न च प्रकाशोपीत्यादि। प्रकाशो
भगवत्प्रकाशः कार्यस्य गुणप्रकाशस्य व्यतिरेकेण गुणप्रकाशमपहायेति
यावत् । तथा न सम्भवति न वक्तुं शक्यते तत्र युक्तिः ।
अन्यथेत्यादि । तथाच यथा प्रकाशविशिष्ट एव सूर्यो वस्तुप्रकाशरूपं
कार्य करोति न सूर्यसत्तामात्रं सर्वग्रासादौ कार्यादर्शनात् । एवमत्र
गुणप्रकाशैरपि प्रेरकाभिमानिनोः प्रकाशविशिष्टसत्तैवानुमेया ननु
सत्तामात्रं । जीवात्मनो भगवतश्च प्रकाशः कार्यकालेपयस्ति प्रकाशत्वात्
सूर्यादिप्रकाशवदितिप्रयोगात् । तथाच भगवतआत्मनो वा प्रकाशार्थं न
सत्ववपुषोपेक्षेतिपूर्वपक्षहृदयं समादधते यस्येत्यादि । तथाचैवमनुमानोपि
गुणात्मकप्रकाशस्यैवानुमितिर्नतु स्वरूपस्य तत्प्रकाशकस्य
चाप्रकाशादितिभावः । सिद्धमाहुः । अत इत्यादि । यतो गुणप्रकाशरूपेण
कार्येण प्रकाशविशिष्टस्य सत्तैवानुमिता भवति ननु स्वरूपस्य
प्रकाशोनुभवात्मकः अतो भगवतो जीवस्य च स्वरूपप्रकाशार्थमवश्यं
भगवद्वपूरूपः सत्वगुणोपेक्षितः । तेन विना उत्तमाश्रामणोरपि हाद
स्वरूपप्रकाशो न स्यात् तस्मादाश्रमचतुष्टयोपि भगवत्स्वरूपात्मकस्य
त्वगुणस्यापेक्षेत्यर्थः । एवञ्चात्र जीवस्वरूपप्रकाशः शुद्धाद्वैतप्रकाशस्य
वैदिके वर्मनि प्रमेयमित्युक्तम् ॥३४॥
ननामरूपे इत्यत्र । वेदे गुणाभावादिति तथा कृतवानिति सत्व-