पृष्ठम्:श्रीसुबोधिनी.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।


अस्मिन्पद्ये मैत्रायणीयोपनिषदुक्तो गुणान्तरसारभूतः सत्वगुणो वेदे प्रमाणमिति तद्देवानां सात्विकत्वात्तत्पक्षपातार्थं भगवताऽधिष्टीयते तदा देवानां वैदिकधर्मेषु भगवत्सेवाकरणतायास्तत्साहायतायाश्च प्रमितिर्भवतीत्युक्तम् ।। ३३॥

 सत्वं नचेदित्यत्र । पूर्वोक्तं पक्षपातमेकदेशेनाक्षिपन्ति। नन्वित्यादिभवतुनामेति । तदुभयोपकारकं भवतु नामसिद्धफलदातृत्वादिति सिद्धस्य परमानंदरूपस्य मोक्षाख्यफलस्य दातृत्वात् । असिद्ध फलेऽपीति । न सिद्धं वृत्तिविचारगम्यरूपं फलं यस्य तादृशे तपस्यपि साक्षादेव द्वारान्तरमंतरेणैव ज्ञानाख्यफल जननसम्मवात्तथा। तत् ज्ञानइति । वेदोक्त ज्ञाने । अत्र मूलश्लोके चेदिति नैकं पदं किन्तु चाध्यर्थे इदमवधारणे तथाचैवं जनाः इत्यवधारणे हे धातः इदं निजं सत्वं यदि न भवेत् अज्ञानभिदापमार्जनं विज्ञानञ्च न भवेदित्येवं बोध्यम् । तदेतद्व्याकुर्वन्ति इदमित्यादिना। चेदितिपदं तु तर्कत्वादर्थादध्याहृतं बोध्यम् । ननु सत्वमात्रस्यैवापेक्षाचेच्छास्त्रीयसत्वेन निर्वाहान्न ममाधिष्टानापेक्षेत्यत आहुः । नच शास्त्रेत्यादि ज्ञानमिति । साक्षात्काररूपं ज्ञानं तद्धर्मत्वादिति शास्त्रधर्मत्वात् शास्त्रधीयत्वात् । तैरिति । शास्त्रैः विज्ञानशद्वउपासने प्रसिद्ध इति तद्व्यावर्तयितुं व्याकुर्वंति। विज्ञानमनुभव इति अयमहभित्यभेदेनानुभवः। यथायथेत्यादि । आनंदमीमांसायां प्रत्यानंदश्रोत्रियस्य चाकामहतस्येति विशेषणादितिभावः । निषिद्ध्यमानामिति नभवेदित्यनेन निषिद्ध्यमानं । उभयोरिति आत्मनः भगवतश्चेत्यर्थः । तदेतट्टिप्पण्यां व्याकुर्वन्ति । आत्मेत्यादि सुबोधिन्यां । पूर्वमिति येन्येऽरविन्दाक्षेत्यस्य व्याख्याने श्लोकयोजनां स्फुटी कुर्वन्ति । नचेत्यादि । तदेतट्टिप्पण्यां व्याकुर्वन्ति । इत्पदेत्यादि। सुबोधिन्यां ननु पदावर्त्तनापेक्षया व्याख्यानांतरस्य ज्यायस्त्वात् श्रीधरोक्तमादरणीयमित्यत आहुः । अज्ञानेत्यादि । तयाख्यानानादरे टिप्पण्यां हेतुमाहुः । क्रियापदत्स्येत्यादि । स्वोक्ताशङ्केत्यादि । श्रीधरेण हि मोक्षस्य तु ज्ञानैकसाध्यत्वात् किंभक्त्येत्याशंका अवतारिकायामुपक्षिप्ता । सा तदा निवर्त्तते यदा मोक्षस्य वा भक्त्यैकसाध्यता व्याख्यायते यन्तु न व्याख्यातमितितदनिवृत्तिः । स्वव्याख्यात शास्त्रार्थों भक्तानां मोक्षप्राप्तिरूपस्तस्याप्यनेनाप्राप्तिरित्यतः श्रीधरीयं द्वतीयव्याख्यानमयुक्तमित्यर्थः । सुबोधिन्यां उत्तरार्द्धमवतारयति । नन्वि-