पृष्ठम्:श्रीसुबोधिनी.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
जन्मप्रकरणम्अध्यायः

नेतरमार्गतौल्येऽपि "अपि चेत्सुदुराचार” इति वाक्यात्तथेत्यर्थः । अत्रायमाशयः। ये भक्ताः सेवां कुर्वन्तोऽपि न विषयासक्तिरहितास्तेषां विषयासक्तिनिवृत्यर्थं भगवान् स्वस्वरूपस्थितानि विलासचिह्नानि प्रदर्शयति । तदा चिह्नानामतिरमणीयत्वाद्भगवद्विलासे सर्वोत्कृष्टत्वज्ञानेन विषयेष्वतिहीनत्वबुद्धिरुत्पद्यते तदा विषयं त्यक्त्वा भगवतो आसक्ता भवन्तीत्यर्थः । नन्वेवं करणे भगवतः किं प्रयोजनमत आहुः । अत एवेति । यतस्तावकाः पूर्वमेव भगवदनुगृहीताः तावकत्वाभावे त्वयैवं किमिति क्रियेतति भावः । एवञ्च साधने दृढविश्वासे पूर्वोक्तं फलं भवतीत्यत्र निदर्शनमनेनोक्तं ज्ञेयम् । अतो भक्तिमार्गादित्यादि । तथाचात्र स्तुत्या फलनिरूपकत्वं बोध्यम् । लौकिके प्रकारे प्रमाणादीनि चत्वार्यपि भिन्नानि । स्मार्ते तु निरूपणप्रकारे प्रमेयकोटावेव साधनफलयोरन्तर्भाव इति विशेषः । एतेषु चतुर्षु भगवत्स्तुतिस्तु स्फुटैव । कालस्तुतिस्तु अवतारस्तुतित्वाद्वोध्या ॥३२॥

 सत्त्वं विशुद्धमित्यत्र ॥ पूर्ववदाहेति । प्रमाणप्रमेयसाधनफलभेदेन भगवत्पक्षपातमाहेत्यर्थः । प्रपाणेन पक्षपातमुपपादयन्ति वेदोहीत्यादि नस्यादित्यन्तम् । द्वेधा भिन्नेरिति ।पूर्वाश्रमद्वयमेकस्यां कोटौ । उत्तराश्रमद्वयं चेत्यर्थः । श्लोकं व्याकुर्वन्ति । वैदिका इत्यादि। स्थित्यमिति । वैदिकधर्मस्थित्यर्थ सिद्धमाहुः । शुद्धैरित्यादि। तथाच भगवत्सत्वेन चतुर्विधधर्मप्रमित्या भगवत्सेवाप्रमित्या च शुद्धस्तथेत्यर्थः । कार्यसिद्धाविति । धर्मप्रमित्यादिसिद्धौकोपीति । धेदातिरिक्तश्चेतनो नियामकः । तथाच दृष्टविसंवादेऽपि कचिद्वेदमागे प्रवर्तन्ते । अन्येच न प्रवर्त्तंत इतिदर्शनात् न वेदेन कार्यसिद्धिः किन्तु श्रेयो जनकः सत्त्वोपाधिर्वैदिकपदार्थक्रियाप्रमितिजननायावश्यकइत्यर्थः। एतदाक्षिपन्ति । नन्वित्यादि । समादधते तेहीत्यादि अत्र समाधिष्टिप्पण्यां वैदिकं कर्मेत्यादिना निष्कृष्टो बोध्यः । तदभावात्तथेति वेदान्तोक्तकर्तृस्वरूपज्ञानाभावेन यथोक्तत्वाभावान्नादृष्टजननं कर्मप्रकारज्ञानाभावाच नभूतसंस्कारइत्यर्थः । जडत्वादिति। शरीराभिमानेन जडत्वाञ्चेतनधर्मस्यादृष्टस्य तत्र नोत्पत्तिरित्यर्थः सुबोधिन्यां अपेक्ष्यते इति । ता दृशां फलदानार्थमपेक्ष्यते । अस्तुयेति । यथा कथञ्चित्कर्तृस्वरूपज्ञानात्कर्मप्रकारज्ञानाचास्तु वा ।