पृष्ठम्:श्रीसुबोधिनी.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।


यस्येति । तथार्वाचीनानामतथात्वेपि तन्मूलभूतेष्वाचार्येष्वनुग्रहात्तदनुसारिणस्तारयसीत्यर्थः ॥ ३०॥ ।

 येऽन्य इति ॥ नन्वस्मिन् श्लोके बहिर्मुखनिन्दैव दृश्यते । नतु किञ्चित्साधनमतः कथमस्य साधनबोधकत्वमित्याकाङ्क्षायां तद्बोधकत्वप्रकारमाहुः साधनमित्यादि । तथाच तदतिरिक्ते असांप्रदायिके साधने निराकृत तत्र दृढविश्वासो भवत्यन्यथा पाक्षिकत्वं स्यादिति तदितरनिन्दाद्वारा नहि निन्दाज्ञा येनात्र साधनस्यैव कथनमिति भावः । विकर्मसहितमिति । ज्ञानविशेषणम् । तदेतट्टिप्पण्यां विवृण्वन्ति ।। सम्यगित्यादिना । सुबोधिन्याम् । तथाबुद्धिरिति । निरीश्वरादिवुद्धिः। महता कष्टनेत्यादि । इदं कृछ्रपदस्य विवरणं असुरपक्षपातादिति । अन्यपदोक्तानां तेषां तथात्वात् । तस्मादिति विषयत्वेनात्मज्ञानादित्यर्थः । साधनत्वेन परिग्रहादिति । भावनासाधनत्वेन परिग्रहात । शृङ्खलद्वीप इत्यादि पुराणान्तरादौ प्रसिद्धं परित्यागवदिति सप्तम्यथेवतिः ॥ ३१ ॥

 तथा न ते इत्यत्र ॥ विकर्मादिनेति । यः कश्चिद्वैष्णवो लोके मिथ्याचारोप्यनाश्रमीत्यादिवाक्येषु वैष्णवविशेषणतयोक्तेन विकर्मादिना । साधनत्वेनैवेति । त्वदीयतासाधनत्वेनैव । अतस्तुल्यत्वादिति । भगवद्भावे साधनत्वेन परिग्रहस्य तुल्यत्वात् । स्मार्त्तस्येति। मोक्षशेषभूतस्य । पूर्वं तद्वत्प्रवृत्ता इति । इदं मूलस्थ तथापदस्य विवरणम् । तथाचैवमन्वयः । ये तथा पूर्वं द्वत्प्रवृत्तास्तेपि तावकाः सन्तः नभ्रश्यन्तीति । पाद इत्यादि इदं भ्रश्यन्त्यऽपि नेत्यस्य विवरणम् । एतस्यैव निष्कर्षमाहुः । आरुह्येत्यादि । यत्तु यथापूर्वश्लोकोक्ताः पतन्ति तथा ते तावकाः न भ्रश्यन्तीत्यन्वयं कश्चिदाशशङ्के। तथाच पातो भवति परं तथा न भवतीत्यर्थं चाह । तन्मन्दम्। ते इति पदस्य वैयर्थ्यापत्तेः । यदि हि तच्छब्दस्येदं बहुवचनं तदा तेन पूर्वश्लोकोक्ता एव परामर्षणीयाः तेषां तु पात उक्त इति नभ्रश्यन्तीति वाक्यस्यैव विरोधः । यदि च युष्मच्छब्दस्य षष्ट्येकवचनं तदा तेनैव भगवदीयतायाः प्राप्तत्वात्तावकपदस्य वैयर्थ्यं । एवमन्यदपि तर्कितं दूषणीयमिति दिक् । तत्रत्यानामिति रात्री भवानां भगवति विलासचिन्हानां स्मातभक्तिमार्गे विद्यमानानां जीवानां वा दर्शनार्थमित्यर्थः । विकर्मतुल्यत्व इति । विषयासक्तिसद्भावे-