पृष्ठम्:श्रीसुबोधिनी.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
जन्मप्रकरणम्अध्यायः


काङ्क्षायामाहुः । भूमिश्चेदित्यादि । भूमेर्जलोपरिष्टत्वेन पोतत्वस्य प्रसिद्धत्वात्सा पोतरूपा सार्वजनीना । आकाशस्य च विष्णुपदतायाः प्रसिद्धत्वात्तत्र यदतरन् तत्तारकाणां तारक[१]त्वमिति श्रुत्या तत्रत्ये जले आकाशेनैव तासां तरणात्तदपि पोतरूपं सार्वजनीनम् । प्रकृते च भूमौ स्थित्वा कर्मादिसाधनकरणे स्वर्गिण्योप्येतमिच्छन्तीति वाक्येन भूमेरेव प्रयोजकत्वात्पोतत्वम् । आकाशस्यापि हाईस्य ध्यानप्रयोजकत्वात्पोतत्वं बोध्यम् । अक्षराऽनुपपत्तिमुद्भावयन्ति । भगवद्भावकेत्यादि । तदेतट्टिप्पण्यां विवृण्वन्ति । अक्षरेत्यादि । तेन पुरुषरूपेणेति समाधिकल्पितपुरुषरुपेण । सुबोधिन्यां समाधिकल्पितस्यापि तारकत्वे उपपत्तिमाहुः अयंत्वित्यादि । तथा च समाधिकल्पितस्यात्मदर्शनस्य मानसधर्मत्वस्य तत्वमित्यर्थः । कथमदृष्टद्वारकतानिवारणमित्यत आहुः । पादेत्यादिकरणं समाधिरेवेति । तथा च यस्य कस्यापि चरणस्य ध्यातस्यैव पोतत्वमभिप्रेतम् । ननुवास्तवस्येति । तस्यापि तथामाहात्म्यामित्यर्थः । महान् कृत इति । महत्कृतशब्दावयवस्य कृतशब्दस्य तात्पर्यमिदम् । इति प्रमाणसमाप्तिरिति । भगवदर्शजनकत्वेन प्रमाणपर्यवसानमित्यर्थः ॥ २९ ॥

 स्वयमित्यत्र ॥ सम्पूर्णानुवाद इति । अन्य प्रति सम्पूर्णानुवादे॥ किमत्र प्रमेयं योगप्रमाणेन प्रमितं भवतीत्यत आहु । मोक्षत्यादि । मोक्षः संप्रदायश्चेति । फलत्वेन साधनत्वेन चेति शेषः । तथाचैतद्वयमिह योगजधर्मेण प्रमितं भवतीत्यतस्तथेत्यर्थः । अलौकिकरणं च पूर्वोक्तसमाधिरूपं बोध्यम् । ननु श्लोकद्वयेऽपि संसारस्य समुद्रत्वकाथनात्प्रत्युतास्मिन् दुस्तरत्वाद्युक्तेरत्र चरणस्य पोतत्वकथनमेवोचितं तदपहाय किमिति नौत्वादिकमुष्यत इत्याकाङ्क्षायामाहुः तेष्वित्यादि। सर्वप्रदर्शक इति। कूलपरिच्छन्नतया सर्वसंसारदर्शकः । एतस्यैव विवरणम् । तत्कृपयेत्यादि । एवञ्च पूर्वोक्तेन स्मार्तेन योगरूपेण प्रमाणेन भगवञ्चरणरूपभक्तिमार्गात्मकसाधनभूतं प्रमेयम् । ततो भगवत्प्राप्त्यात्मकं फलरूपं च प्रमेयं प्रमितं भवतीत्यर्थः । चरणस्य संप्रदायपरत्वं तु पूर्वश्लोकोक्तमहत्कृतपदादेव सिद्धमिति न चोद्यावसरः । एतनिदर्शनं च भक्तियोगेन मनसि सम्यक् प्रणिहित इति प्रथमस्कन्धोक्तव्याससमाधिसंदर्भात् ज्ञेयम् । सत्सु अनुग्रहो



 २ तारकासु तारकत्व धर्मविशेषः ।