पृष्ठम्:श्रीसुबोधिनी.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।


सर्वस्मिन् भगवदुपादेयत्वभगवत्त्वप्रमिति जनकत्वात्प्रमाणत्वं बोध्यम् । किश्च श्रीधरीये सत्यव्रतपदस्य सत्यसङ्कल्पत्वं यद्याख्यातं तदत्र भगवतो व्रतादीनीत्यादिना सिद्धम् । सत्यपरपदे सत्यं परं प्रापकं यस्यति यद्वाख्यातं तदत्र क्रियाशक्तः त्रयोदशविधत्वेन सिद्धम् । यश्च त्रिसत्यादिविशेपणचतुष्टयपदं व्याख्यातं तदत्र सत्यस्य योनिमित्यादि विशेषणत्रयेणैव सिद्ध तेन तन्मते त्रिसत्यामत्यस्य विशेषणवैयर्थ्यं व्याख्यानव्याख्येयभावस्यागतिकत्वादतो दोपाणां विद्यमनत्वात्तदुपेक्ष्यमिति बोध्यम् ॥२५॥

 एकायन इत्यत्र एवं प्रमाणेत्यादि । पूर्वश्लोके सत्यस्य प्रमाणत्वकथने सत्यात्मकमित्यनेन भगवतः [१]प्रमाणरूपतामुक्त्वाऽग्रेत्वमेकएवास्येत्यनेन श्लोकेन साधनरूपतां वदिष्यन् । तदुभयसंदृष्टेनैकायनश्लोकेन भगवतो जगदूपतया प्रमेयतामाहेत्यर्थः । ननु ब्रह्माण्डस्य वृक्षत्वमत्र निरूप्यतेऽतः कथमत्र भगवतः प्रमेयत्वप्रतिपत्तिरित्याकाङ्क्षायामाहुः । वृक्ष इवेत्यादि । भगवान् वृक्षरूप इति । तेन आदिवृक्षोऽसौ इति मूलान्वयो बोधितः । नचात्र श्रुतौ वृक्षो दृष्टान्तत्वेन प्रविष्टोऽतो नानया भगवतः प्रमेयत्वोपाष्टम्भ इति शङ्ख्यम् । ऊर्ध्वमूलमर्वाक्छाखं वृक्षं यो वेदकश्चन मृत्यु न स जातु नः स श्रद्दधात् मृत्युर्मामारयादितीति श्रुत्यन्तरे मृत्युमारणाभावश्रद्धारूपफलेन तस्य वृक्षस्य भगवद्रूपतावगमादिह कार्यरूपवृक्षनिरूपणेऽपि तेन कारणवृक्षस्यानुमानान्नप्रमेयत्वहानिरित्यर्थः । ननु तथापि सद्रूपस्य तथात्वमस्तु कालात्मकस्य कथमिति चेन्न । कालस्य जगदुपादानत्वात् । गुणव्यतिकराकारो निर्विशेषो प्रतिष्टितः । पुरुषस्तदुपादानमात्मानं लीलया सृजदिति तृतीयस्कन्धे तथा प्रमेयत्वसिद्धत्वात् । उपादेयस्योपादानात्मकत्वेन काले तथात्वसिद्धरप्रत्यहत्त्वादिति। निरूपितेति । तृतीयस्कन्धे एते देवाः कलाविष्णोरित्यादिनोक्तेत्यर्थः । दैत्यकल्पादत्र फलेऽपि विशेषमाहुः । नराणां कमित्यादिना ॥ २६ ॥ २७ ॥

 विभर्षीत्यत्र ॥ अनेन क्षेमार्थावतारोक्त्या देवेषु पक्षपातो बोधितो शेयः ॥२८॥

 त्वमित्यत्र ॥ पृथिव्यादित्रयाणां चरणत्वेऽपि कथं पोतत्वमित्या



 १ श्रीमतां वाक्यं प्रमाणं वर्तते या आगमनार्थं प्रतिज्ञा कृता सा सत्या ।