पृष्ठम्:श्रीसुबोधिनी.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
जन्मप्रकरणम्अध्यायः

सत्यस्याधिदैविकं सत्यमिति बोधनेनोत्पत्तिस्थिति प्रसङ्गादेर्लय उच्यत इत्यर्थः । तात्र कथं फलबोध इत्यत आहुः । सत्य एवेत्यादि। प्रलयो हि कारणे प्रवेशरूप इति कार्य सत्यं कारणभूते सत्ये प्रतिष्टितं भवति तच्च भगवानेवेति तेन रूपेण सत्यं फलमित्यर्थः। तदुपपादयन्ति । अनेनेत्यादि । उक्तमित्यन्त अनेन प्रकारेण फलमुक्तमित्यर्थः । एवं विशेषण त्रयोक्त्या विधा पञ्चकसिद्धिं निगमयन्ति । एवमित्यादि अष्टविधस्य सत्यस्यानेन प्रकारणोत्पत्यादिप्रसङ्गे प्रतिष्टितत्वस्यापि सिद्ध्या तदादायपञ्चविधं सत्यमुक्तमित्यर्थः। अनेनैव त्रयोदशत्वस्यापि सिद्धिमाहुः । एतावतेत्यादि । क्रियाशक्तिरितिक्रियाजनकं क्रियात्मकं चत्र गवत्सामर्थ्यम्। अत्र क्रियाशक्तस्त्रयोदशविधत्वमेवं ज्ञेयम् । व्रतसत्ययोधर्मानुमापकत्वात् प्रमाणकोटिपातेऽपि कर्मरूपत्वात् क्रियारूपत्वं प्रमेयरूपाणां चतुर्विधनियामकानां तथात्वं यथासंभवं क्रियारूपत्वात्तज्जनकत्वाच्च स्पष्टमेव । साधनफलयोश्च कर्मप्रधानकत्वात्तथात्वम् । अग्रे च साधनस्वापि तथात्वादेव क्रियारूपत्वं प्रमाणस्यापि उत्पत्तिक्रियान्तःपातित्वात् तथात्वम् । उत्पत्यादिक्रियान्तःपातित्वादेव च प्रतिष्टितफलरूपयोरपीति तथा । भगवच्छक्तित्वं तुं भगवदाधारकत्वात्स्फुटं अग्रिमविशेषणं व्याकुर्वन्ति । ज्ञानशक्तिमित्यादि । ज्ञानजनिकां भगवच्छक्तिं सत्यत्वेन निरूपयतीत्यर्थः ननूत्र ऋत सत्ययोर्द्वयोर्निरूपणस्य किं प्रयोजनमित्यतस्तदुपपादयन्ति । ज्ञानशाक्तिरित्यादि । प्रमाणं वेद इति । तस्यानपेक्षतया प्रमाण्यस्य तत्रैव पर्यवसानात्तथा प्रमेयं भगवद्धर्मा इति। ये चैव भगवता प्रोक्ता इत्यादि वाक्यैः प्रमितत्वात् । ऋतसूनृतावाणीति । सूनृता सत्यप्रतिपादिका ऋतं च सूनृतावाणी कविभिः परिकीर्तितेति भगवद्वाक्यात। अन तन्निरूपणप्रयोजनमाहुः । वेद इत्यादि । उक्तामिति । द्वयमुक्तम् । सत्यं एवेति सत्ये पूर्वोक्त पञ्चदशविधे एव । सत्यात्मकपदं प्रकारान्तरेण व्याकुर्वन्ति । कं फलं वेत्यादि । अत्र आत्माचकं च आत्मक सत्यं आत्मकं यस्येत्येवं विग्रहो बोध्यः एवं व्याख्यानस्थ प्रयोजनमाहुः । सञ्चिदित्यादि । तयोक्तमिति । तथाचाख्यातमित्यर्थः। अंशतः षोडशविधन्वं यत्पूर्वं प्रतिज्ञातं तन्निगमयन्ति । टिप्पण्याम् । प्रमाणादीत्यादिषोडशधेत्यन्तम् । अत्र च सत्यस्योपपत्युत्पत्तिभ्यां