वाद्यन्तयोरिति । एतस्याष्टिप्पण्यां वक्तव्यः । नन्वितरावाद्यन्तयोरुच्येते
इत्यत्र किं गमकमित्यत आहुः । चकार इत्यादि । निहितं च
सत्य इत्यत्र चकार उक्तं समुच्ययन्निरर्थकः स्यादित्यनुक्तं
प्रमाणफलसमुच्चयरूपमर्थमाहा तथाच चकार एतद्रमक इत्यर्थः ।
इतराद्यन्तयोरिति यदुक्तं तट्टिप्पण्यां प्रकारद्वयेन विवृण्वन्ति ।
इतरावित्यादि । अत्र प्रमाणेत्यारभ्य प्रसिद्धे इत्यन्तमेकप्रकारम् ।
अथवेत्यारभ्य इत्यादिनेत्यन्तो द्वितीयः । तत्र प्रथमे प्रकारे सत्यस्य
योनिमिति विशेषणं सत्योत्पत्तिमात्रबोधकम् । नतु विधासंग्राहकम् ।
द्वितीयं तु प्रमेयसाधनबोधकमिति सुबोधिन्यां स्पष्टम् । तृतीयं
प्रतिष्टितत्वबोधकम् । अस्मिन् पक्षे सुबोधिन्युक्तस्य यथापूर्णत्यादि
ग्रन्थस्य विरोध इत्यरुच्या पक्षान्तरमाहुः । अथवेत्यादि । ननु
योनिशब्दस्य कारणवाचकत्वादत्र प्रमाणनिरूपणं कथं सङ्गछत
इत्याकाङ्क्षायां सत्यस्य योनिमित्यनेन प्रमाणनिरूपणे प्रकारमाहुः ।
मानेत्यारभ्य मानमित्यन्तम् । विवृताविति सुबोधिन्याम् । नन्वेवं
सुबोधिन्याविरोधेन प्रमाणफलयोः सिद्धौ पूर्वोक्तप्रकारलिखनस्य
किम्प्रयोजनमिति चेदुच्यते योनिशब्दस्य कारणे निगूढत्वादत्र च
सत्यकारणत्वेनैव प्रयोगात्तस्य कारणत्वेन सङ्कोचने मूलविरोधापत्तिः ।
सत्यस्य सत्यमिति विशेषणस्य
फलबोधकताङ्गीकारेऽजहल्लक्षणापत्तिमूलविरुद्धः पक्षः सुबोधिन्यां
कुत आदृत इति चेदत्राप्युच्यते। योनिशब्दस्य प्रमाणपदत्वं
शास्त्रयोनित्वादित्यत्र भास्कररामानुजाचार्याभ्यामादृतम् । प्रकृते
च भगवतो योनित्वकथनेन सत्यस्य तदुत्पन्नत्वं साधितं अतस्तेन
धर्मेण सत्यं प्रमाणमिति कथने को वा मूलविरोधः । किञ्च
सत्यस्य सत्यमिति विशेषणे भगवतः सत्याधिदैविकत्वमुक्तम् ।
तत्र प्रतिष्टितत्वेन रूपेण सत्यस्य फलत्वकथनेऽपि को वा
मूलविरोध इति जानीहि । एवं च पुरस्फुर्तिकमादाय प्रथमः
प्रकारः । सूक्ष्मेक्षणमादाय द्वितीय इति टिप्पण्यां न कोपि
दोषः । सुबोधिन्यां सत्यस्य सत्यमिति कथनेन कथं लयस्य
बोध इत्याकाङ्क्षायामाहुः । यथेत्यादि । यथा पूर्णमदः
पूर्णमिदमिति मन्त्रे पूर्णशब्दवाच्यस्य प्रपञ्चस्य स्थित्युत्पत्ती
उक्ता पूर्णस्य पूर्णमादायेत्यनेन स्वजनके आधिदैविके
पूर्णे ब्रह्मणि कार्यस्य लय उच्यते । तथात्रापि
सत्यस्योत्पत्तिस्थितीपूर्वविशेषणाभ्यामुक्त्वा अत्र
पृष्ठम्:श्रीसुबोधिनी.pdf/२४९
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
दशमस्कन्धसुबोधिनीटिप्पण्योः प्रकाशः।