पृष्ठम्:श्रीसुबोधिनी.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
जन्मप्रकरणम्अध्यायः

पिते । त्रिसत्यपदोक्तं विधाद्वयं व्याकुर्वन्ति । लोका भूर्भुव इत्यादि। लोकाः फलरूपा इति । पुरुषार्थत्वेन प्राप्यत्वात् फलरूपाः । इतरे- त्वितराणीति । कायादयस्तु वस्तुतस्साधनशेषत्वात्साधनानि । इदं च द्विविधमिति । त्रिसत्यपदे त्रिशब्देनोक्तं द्विप्रकारकमित्यर्थः । एवं विधाष्टकं निगमयित्वा त्रिसत्यपदसुबोधिन्याम् । चतुर्द्धेति । यदुक्तं तन्निगमयन्ति । एवमष्टेत्यादि । एवमष्टविधत्वं सत्यस्य उक्त- भेदेन उक्तरीत्या संग्रहीतो यः षोढाभेदस्तेनेत्यर्थः । चतुर्विधत्वं निगमयन्ति । पदद्वयेत्यादि । सत्यव्रतं सत्यपरमिति पदद्वये यो विधेय- भेदस्तेन द्वैविध्यम् । प्रमाणप्रमेयत्वाभ्यां द्विविधत्वम् । त्रयं त्रिसत्यपदे त्रिशब्देनोक्तं द्विविधम् । फलसाधनभेदेन द्विप्रकारकम् । तथाचैवं मूलस्थैः त्रिभिः पदैः श्रौतं चतुर्विधत्वं समर्थितं ज्ञेयमित्यर्थः । सुबोधिन्याम् । नन्वेवं श्रौते चातुर्विध्ये स्वोक्तेऽष्टविधत्वे च समर्थिते शेषाणां पञ्चानां विशेषणानां किम्प्रयोजनमित्याकाङ्क्षायां श्रौतव्यतिहारफलभूताऽभेदसाधनं स्वोक्तषोडशविधापूरणं च प्रयोजनमित्याशयेनाहुः । उत्पत्तिरूपमित्यादि । उत्पत्यरूप्यते निरूप्यते तादृशं पञ्चभिर्विशेषणैर्निरूपयतीत्यर्थः । तत्र प्रथमविशेषणं व्याकुर्वन्ति यत्पूर्वमित्यादि । श्वो न भवेदिति । द्वितीयदिनात्माकालो यदि भगवता नोत्पादितो भवेत् । तथाचाष्टविधं सत्यं भगवदुपादेयत्वाद्वाक् सत्यत्वप्रयोजकमित्यर्थः । अग्रिमविशेषणमष्टमप्यतिदिशन्ति । एवं सर्वत्रेति । निहितं च सत्य इत्यादिविशेषणेष्वप्यष्टविधं सत्यं ततदुक्तेन धर्मेण तत्कार्यप्रयोजकं ज्ञेयमित्यर्थः । अग्रिमपदं व्याकुर्वन्ति । न केवलमित्यादि तत्तात्पर्यमाहुः । अनेनेत्यादि । विशेषणचतुष्टयानन्तरवर्तिना निहितं च सत्यं इति विशेषणेनाष्टविधसत्यस्योत्पत्तिप्रयोजनविचारेऽष्टविधं सत्यं भगवद्रक्षितत्वेन प्रमेयम् । भगवदधिष्टितत्वेन स्वस्वकार्यसाधनं चोक्तम् । नह्यरक्षितं प्रमातुं शक्यते। न वा भगवदनधिष्टितं स्वस्वकार्यं साधयितुं शक्नोति । गामाविश्य च भूतानि धारयाम्यहमोजसत्यादिवाक्यस्तदाभिध्यानादेव तु तल्लिङ्गात्स[१] इति न्यायेन च भगवदधिष्टितस्यैव कार्यरक्षत्वेन सिध्यत्वादित्यर्थः । ननु यद्येवं तर्हि प्रमाणफले कुत्रोक्ते इत्यत आहुः । इतरा-



 १ स परमात्मा आकाशादिरूपेण वारवादीन्मजेति । तालिङ्गात् । कर्तृत्वं ब्रह्मणो लिङ्गं-
 तस्मात् । तर्हि कथमाकाशाापादानं तदभिध्यानात् । तत्तत्कायार्थं तदात्मकत्वं भगवतस्तस्मात् ।