पृष्ठम्:श्रीसुबोधिनी.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
दशमस्कन्धसुबोधिनीटिप्पण्योः

तु असाधारणत्वादेव स्फुटं शेषस्य भगवन्नियामकस्य परत्वं सुबोधिन्यामेवोपपादितामत्याशयेनाहुः । टिप्पण्यां भगवतो व्रतमित्यादि। तथा सति परपदेन विधा[१]चतुष्कसंग्रह इति भावः । एवञ्च मूले सत्यपरपदे सत्यं परं यस्येति बहुव्रीहौ लम्बकर्णादिवत्पूर्वनिर्दिष्टस्य विशेषणभूतस्य सत्यस्य विधेयत्वं परपदोक्तस्य चतुर्विधस्य नियामकादेरुद्देश्यत्वं बोध्यम् एवमत्रश्रुत्युक्तव्यतिहारबोधकं मूलस्थं पदद्वयं विवृतम् । व्यतिहारफलमैक्यंत्वग्रे विवेचनीयं लोहित्रय इत्यादिना सुबोधिन्यां त्रिसत्यपदं विवृण्वन्तीत्याशयेन तत्सिद्धं विधाय द्वयमष्टविधत्वपूरणाय स्फुटी कुर्वन्ति । त्रिसत्यमित्यादि । स्पष्टार्थमिदम् ।। सुबोधिन्यां त्रिसत्यपदतात्पर्यमाह । अनेनेत्यादि । त्रिसत्पदेन साधनफले सत्येन "न स्वर्गाल्लोकाच्यवन्त" इति श्रुत्युक्तं साधनम् । सतां हि सत्यमिति श्रुत्युक्तं फलं च निसंख्यासामान्यनैकीकृत्य निरूपितमित्यर्थः । श्रुत्युक्तानां स्वोक्तानां च विधानां पूरकं रूपं स्फुटी कुर्वन्ति । एवमित्यादि । उपपत्तिरूपं इति । उपपत्त्या रूप्यते तादृश इत्यर्थः॥ टिप्पण्यां कथमुपपलिरूपत्वमित्याकाङ्क्षायां विवृण्वन्ति । भगवत इत्यादि उपपत्तिरूपत्वमित्यन्तेन । आदिकमित्यनेन सत्यस्य संग्रहः । व्रतानि चेति । चेन्नभगवन्नियामकसत्यस्य संग्रहः । तथाचोक्तरूपयोपपत्या निरूप्यत्वादुपपत्तिरूपत्वमित्यर्थः । सुबोधिन्यां सत्यवतपदव्याख्याने सत्यपरपदव्याख्याने च व्रतसत्ययोः प्रविष्टत्वात्सयोरभेदे परपदोक्तनियामकयोश्चाभेदे विधाष्टक पूर्तिदुर्घटेति तदभावाय तेषां स्वरूपमाहुः । व्रतं हीत्यादि। एवं सत्यव्रतपदं विवृतम् । यत्र सिद्धं यत् व्रतं सत्यं च तत्प्रमाणभूतं बोध्यम् । भगवत्सम्बन्धिना तादृशेन लौकिकव्रतेन सत्येन च कर्तृनिष्टधर्मप्रमितिजनादिति । अन्यत्स्पष्टमिति । यत्परं लोक इत्यादि सुबोधिनीस्थ लोके लौकिकं नियामकमित्यादिना विकृतत्वात् स्फटमित्यर्थः । तदेतत्संगृह्णन्ति । लौकिकमित्यादि लौकिकमिति । नियामकमिति शेषः । नियामकं चेति । देवहितकारिणो नियामकंचेत्यर्थः । इदं चतुर्विधं सत्यं प्रमेयभूतं बोध्यम् । स्मार्तवैदिकभगवदीयवाक्यैः प्रमितत्वादिति । एवं पट्भेदापि श्रौते विधेयकोटिशा.



 १ लौकिकस्य परत्वं वैदिकस्य परत्वं भगवद्व्रतानां परत्वं लोकिकव्रतस्य भगवन्नियामकस्य