पृष्ठम्:श्रीसुबोधिनी.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
दशमस्क्न्धसुबोधिनिटिप्पण्योः प्रकाशः।


एवमनेन प्रकारेण सत्यत्वसर्वोत्कृष्टत्वयोर्भिन्नप्रतीति विषययोरपि ऐक्यं स्तुतौ प्रतिपादनीयमिति सुबोधिनीफक्किकार्थो ज्ञेयः । सुबोधिन्याम् । एवं विधाद्वयं व्याख्याय तृतीयां व्याकुर्वन्ति । अत एवेत्यादि । यतः सत्यपरयोरैक्यं अतस्तथेत्यर्थः । तुरीयां व्याकुर्वन्ति । ऐहिकेपीत्यादि । अत्र सतां सत्यमिति श्रुतिवाक्यं साकाङ्क्षं तन्मूलं फलमिति पदद्वयेन पूरितम् । तथाच सतां.सत्यमेव मूलं सत्ताप्रयोजकं अतस्तदेव फलमित्यर्थः । पूर्ववाक्यआमुष्मिकफलस्य कथनेनात्र ऐहिकफलग्रहणस्यौचित्यात् । प्राजापत्यो हारुणिरिति द्वितीयश्रुतौ तथैव ऐहिकफलस्थ सिद्धत्वाञ्च । पञ्चमी व्याकुर्वन्ति । अत इत्यादि। यतः यथार्थत्वादबाधित्वाश्च सतां सत्यमेव प्रतिरूपम् । इतिहेतो उक्तविधाः सत्ये एव रमन्ते क्रीडन्ति रताभवन्तीत्यर्थः । द्वितीयश्रुतिस्तु न व्याख्याता तदुपन्यासप्रयोजनं त्वग्रे वाच्यं । तदत्रापि निरूप्यत इति । श्रौतं पञ्चविधत्वं स्तुतावपि निरूप्यत इत्यर्थः। श्रीभागवतस्थं सत्यवृतं वाक्यं व्याकुर्वन्ति । लोकेहीत्यादि । टिप्पण्यां यस्त्वित्यादि नोच्यत इति । यस्तु यत्किञ्चनवृतमातिष्ठति स पर इत्युच्यते । तथा सत्यमपीत्यन्तेनोच्यत इत्यर्थः । सुबोधिन्यां । तथासत्यमपीति । अत्र आतिष्टतीत्यन्तं वाक्यं [१] पुनरावर्त्तते इति बोध्यम् । तथाचतयोराश्रयाल्लोके परत्वकथनेन श्रुतौ परशब्देनो[२]भयसंगृह्यत इत्यर्थः । तदेतत्प्रकृते योजयन्ति । भगवतस्तूभयं सत्यमिति । यत्सत्यं यथार्थम् । तत् उभयं सत्यं व्रतं चेति द्वयम् । भगवत्स्वामिकं यत्पुनर्दम्भादिना कृतमयथार्थं तद्भगवत्स्वामिकं न । तथाच श्रुतौ यथार्थत्वादेवोत्कृष्टतया परत्वमितीस्तुतावपि सत्यमुद्दिश्यैवं परत्वविधानाच्छ्रौतार्थसामानाधिकरण्यमेवेत्यर्थः । नच बहूबीही चित्रगुलम्वकर्ण इत्यादिषु प्रथमनिर्दिष्टयोर्लम्बचित्रयोरेव विधेयत्वदर्शनात्सत्यव्रतपदेऽपि सत्यस्य विधेयत्वं शङ्का कुटादिाह्मणादयः शूद्रदासोत्तराः प्रजा इत्यादौ व्यभिचारदर्शनेन ( प्रथमनिर्दिष्टस्यैव विधेयत्वं ) तथा नियमाभावात् । तदेतत् टिप्पण्यां नि[३]गमयन्ति । लोकेहीत्या


 १ यथा व्रते आतिटति तथा सत्ये प्रातिति सोपि परेत्यर्थः ।
 २ वतंसत्यञ्च
 ३ शान्तन बाधयन्ति ।