पृष्ठम्:श्रीसुबोधिनी.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
जन्मप्रकरणम्अध्यायः

विवरणं लोकसिद्धानीत्यादि । सत्यमिति । सत्यभाषणं तद्विषयश्च यथार्थः । साधनानीति जगदुत्पत्यादि साधनानि । एतावद्देव दैत्यपक्षेपि तुल्यं । अथ देवपक्षे विशेषं वक्तुमाहुः । तत्रापीत्यादि । लोके प्रमाणादावपि दैत्यपक्षव्यतिरेकश्च दैत्यपक्षाद्वैलक्षण्यम् । भगवत्त्वेनैव सत्यं प्रमाणं भगवत्त्वेनैव जगत्प्रमेयमित्यादिरूपेण साधनीय इत्यर्थः । एवं प्रतिज्ञाय प्रथमतः प्रमाणे तमाहुः । तत्रेत्यादि । सत्यमिति । सात्विकज्ञानविषयं कालत्रयेप्यबाधितं अनृतमिति । राजसंज्ञानविषयम् । व्यावहारिकं गुणसन्निपातकार्यम् । अत इति । देवपक्षपातात् । एतेन मायोपहितो गुणाधीनः कार्येश्वरश्चानृतरूपो निवारितः । एवं श्लोकतात्पर्यमुक्त्वा तत्र स्थितानामष्टविशेषणानां तात्पर्यमाहुः । सत्यमपीत्यादि । अष्ठविधत्वादिकं कथमित्याकाङ्क्षायां टिप्पण्यामाहुः । अष्टविधत्वमित्यादि । अग्रे इति । विशेषणत्रयव्याख्यानोत्तरमष्टविधत्वं चकारात् सत्यस्य सत्यामित्यस्य व्याख्यानोत्तरं प्रमाणादिचतूरूपमित्यादिना प्रयोदशविधत्वत्रिविधत्वाभ्यां षोडशविधत्वं च स्फुटी भविष्यतीत्यर्थः । तेनेकैकस्मिन् विशेषणे प्रत्येकं विधाद्वयमित्येवं षोडशविधत्वं नोच्यते । किन्तु प्रकारान्तरेणेति सृक्ष्मोक्षिकया सुबोधिन्यामंशतः षोडशविधमित्यनेन उपपत्युत्पत्तिरूपाभ्यां निरूपणे स्फुटी भविष्यतीति बोधितं ज्ञेयम् । नच पुरस्फुर्तिकमष्टविधत्वं विहायांशतः षोडशविधत्वं निरूपणे कुत आग्रह इति शक्यम् । स्तुतौ सत्यविधाः बोधकानां श्रुत्युक्तानां प्रत्यभिज्ञानेन तत्सामानाधिकरणबोधनार्थत्वात् । एतद्बोधनार्थमेव सुबोधिन्यां वेदे । सत्यमित्यादिना । श्रुतितात्पर्यमुक्तम् । श्रुतिद्वयं च यदुपन्यस्तम् । तद्व्याख्यानग्रन्थएवाने स्फुटी भविष्यति अतस्तत्तात्पर्यमनुक्त्वा यत्सत्यमित्यादेस्तात्पर्यमाहुः । यत्सत्यमित्यादिवाक्यालङ्कार इत्यन्तं एतत्कथनप्रयोजनमाहुः । श्रुताविवेत्यादिना। तथाच यथा त्वं अहमस्मि भगवो देवते अहं वै त्वमसीति जाबालश्रुतौ त्वं व्यापक पराग्वित्ति वेद्ययोस्त्वमहं पदार्थयोर्व्यतिहारेण भगत्वादैक्यप्रतिपादनम् । तथास्यामपि श्रुतौ सत्यम्परं सत्यमिति वाक्यस्थव्यतिहारेण परसत्ययोः केनचिह्नरूपेणैक्यं प्रतिपाद्यते तथा सति येन रूपेणास्यां श्रुतावैक्यं प्रतीपादनीयम् ।